SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - 1X. 306 ] ९. अलंकारनिर्णयः कादम्बनाथसाम्राज्ये काठिन्यं करपीडनम् । कान्तापयोधरद्वन्द्वे तत्केल्यामेव ताडनम् ॥२९९।। परिसंख्यालंकारः। याचनं चुम्बनादाने बन्धनं दुष्टनायके। वियोगः पञ्जरे भीतिः क्रुद्धकान्तावलोकनात् ॥३००॥ इयमपि परिसंख्या । सनियमश्लेष इति केचित् । प्रश्नोत्तरद्वयं यत्र व्यक्तं गूढं च वोभयम् । उच्येते तमलंकारमाहः प्रश्नोत्तराह्वयम् ॥३०१॥ प्रजानां पालनं कस्मानिवृत्तिः पीडनस्य च । रायबङ्गमहीपालायाम्भोनिधिचन्दिरात् ॥३०२॥ व्यक्तप्रश्नोत्तरालंकारः। पयोनिधिसमानस्य रायबङ्गमहीपतेः । क्रमाब्जभासुरस्याप्यमेयस्य श्रीः क्व वर्तते ॥३०३॥ व्यक्तप्रश्नगूढोत्तरालंकारः । अस्मिन् श्लोके पादचतुष्टयस्य प्रथमाक्षरचतुष्टये गृहीते पराक्रमे इति भवति तदेव गूढोत्तरम् । तव संबन्धि निष्काम तव संबोधनं कथम् । कीदृशस्त्वं पुनः कीदृग्मानवेश प्रपूजित ॥३०४॥ व्यक्तगूढोत्तरप्रश्नोत्तरालंकारः । अलंकृतीनामुक्तानामुपमादिभिदात्मनाम् । मध्ये द्वयोस्त्रयाद्रीनां संगो यत्र स संकरः ॥३०५॥ श्रीवङ्गराज वदनं तव पूर्णचन्द्रः पादद्वयं कमलयुग्ममिव प्रभाति । नायं भुजोऽरिनृपवृन्दसुधांशुराहुः कीर्तिः करोति सकलाम्बुधिलङ्घनं च ॥ ३०६ ॥ संकरालंकारः। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy