________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
- IX. 217 ]
९. अलंकारनिर्णयः
तरुण्या देहलावण्ये स्नात्वा स्नात्वा प्रमोदते । अधरामलपीयूषं पीत्वा पीत्वामरायते ॥ २०९ ॥ शृङगाराख्य रसवदलंकारः ।
रणसद्मनि शत्रूणां वर्गं दत्त्वा बलि धराम् । सागरान्तां विजित्यायं रायशूरो विराजते ॥ २१० ॥ युद्धवीररसाख्यरसवदलंकारः ।
कृत्वा तृप्तं जगत्सर्वं सुरागं विपिनद्रुमम् ।
कृत्वा दानेन महता पात्रं नास्तीति मन्यते ॥२११॥ रायबङ्ग इति कर्तुरध्याहारः । दानवीररसाख्य रसवदलंकारः । दृष्ट्वा शान्तिजिनं नत्वा स्तुत्वा स्मृत्वा समर्च्य च । आनन्दक्षीरवार्राशौ रायबगो निमज्जति ॥ २१२ ॥ धर्मवीर रसाख्यरसवदलंकारः ।
आयल्लकानलो दग्ध्वा तन्वङ्गीं पीडयत्यहो । इति दूतीवचः श्रुत्वा करुणाब्धौ निमज्जति ॥ २९३॥ राय इति कर्ता । करुणाख्य रसवदलंकारः । मक्षिकाजालपूयार्द्रव्रणकोटियुतान् रिपून् । भिक्षार्थमागतान् दृष्ट्वा जनो वमति राय ते ॥ २१४॥ बीभत्साख्यरसवदलंकारः ।
पश्चाद्गतेशबिम्बं सालोक्य चुम्बति दर्पणे ।
मत्वा निजेशं श्रीरायं दृष्ट्वा हसति कौतुकात् ॥ २१५ ॥ हास्यास्परसवदलंकारः ।
रायारामस्थितान् वृक्षान् स्वनन्दनगतान् बहून् । दृष्ट्वावचिनुते पुष्पाण्यमरेन्द्र विलासतु ॥ २१६ ॥ अद्भुताख्यरसवदलंकारः ।
रायस्य दोर्बलं स्मृत्वा रिपुवर्गे गुहास्थितः । भीतो गच्छामि कुत्रेति भयज्वरगतो मृतः ॥ २१७॥
For Private and Personal Use Only
८३