SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८२ शृङ्गारार्णवचन्द्रिका [IX. 201 - यत्र प्रियतरा वाणी प्रेमाधिक्यप्रकाशिनी । निरूप्यतेऽसौ विद्वद्भिः प्रेयोऽलंकार उच्यते ॥२०१॥ तरुणि चरणघातो मल्लिकापुष्पसङ्ग स्तव घनकुचघातः कौमुदीस्पर्शकल्पः । सरसमधुरकाञ्ची दामबन्धः प्रबन्धो - वदति सुरतकेल्यां रायबङ्गक्षितीन्द्रः ॥२०२॥ प्रेयोऽलंकारः। उक्तार्थानां विरुद्धत्वं यत्र वाक्ये परस्परम् ।। शब्दार्थविहितं नास्ति तत्त्वतः स विरोधकः ॥२०३॥ कलाधरो न शीतांशुस्तेजस्व्यपि न भास्करः । अभीष्टदो न मन्दारो रायबङ्गो गुणाम्बुधिः ॥२०४॥ शब्दकृतविरोधः । उत्तुङ्गोऽपि न मेरुर्न तापहृच्चन्दनद्रुमः । श्रीमानपि न गोविन्दः कादम्बाम्बुधिचन्द्रमाः ॥२०५॥ अयमपि शब्दकृत एव । दयालुना पुण्यजनेन चापि देवेन सुज्ञातगुणेन तेन । श्रीरायबङ्गप्रभुणा विपक्षा जिताःसुलोकाःपरिपालिताश्च ॥२०६॥ अयमपि तथैव । श्रीरायक्षितिनाथ येन समये प्रस्थानभेरी महा कोणेन प्रहता जना रिपुहरे भीत्वाध्वनन्त्यद्भुतम् । लोकेषु ध्वनिमत्सु तेषु धरणीभृद्भित्तयो दिग्गज व्रातस्य श्रुतयो विमानततयो भिन्ना वितीर्णा भृशम् ॥२०७॥ अयमर्थकृतविरोधालंकारः । शृङ गारादिरसानां तु नवानां यत्र कथ्यते । रूपोत्कर्ष पृथक्सोऽप्यलंकारो रसवान् भवेत् ॥२०८॥ For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy