SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IX, 33 ] ९. अलंकारनिर्णयः महाभागस्य रायस्य कामं दोग्धि महान्करः । कामधेनुरिवाशेषजगदानन्ददायिनः ॥ २६ ॥ कामधेनौ कामदोहकत्वप्रसिद्धिः । विपर्यासेन हस्ते निरूप्यत इति विपर्यासोपमा । कादम्बनाथ कीर्तिस्ते शारदी कौमुदीव सा । शारदी कौमुदी भाति त्वत्कीर्तिरिव विष्टपे ।। २७ ।। परस्परोत्कर्षशंसिनी चान्योन्योपमा । श्री राय कीर्तिजालं ते तुल्यं क्षीराब्धिनैव तत् । अन्येन केनचित् साम्यं न प्रयाति जगत्त्रये ॥ २८ ॥ परवस्तुसादृश्य व्यावृत्ते नियमोपमा । कादम्बेश्वर कीर्तिस्ते चन्द्रातपसमाभक्त् । अस्ति चेत् सदृशं वस्तु तत्समापि विराजताम् ।। २९ ।। अन्यसादृश्यसंभवकथनादनियमोपमा । इन्दुमन्वेति कीर्तिस्ते कान्त्या चाह्लादनेन च । भानुमन्वेति तेजस्ते महिमा रागतोऽपि च ॥ ३० ॥ आह्लादनकान्तिमहत्त्वारुणत्वधर्मसमुच्चयात् समुच्चयोपमा । श्रीराय भवतः कीर्तिर्विशाला भवदाश्रया । 1: सुधाकराया ज्योत्स्ना भिदैवेयं न चेतरा ॥ ३१ ॥ भेदान्तरनिरासेन अतिशयोपमा । त्वत्कीर्तावेव धावल्यं न कौमुद्यां तदस्ति चेत् । शारदाभ्राभ्रगङ्गादावपि श्रीराय विद्यते ॥ ३२ ॥ साधारणधावल्यस्य अन्यथाकल्पनादुत्प्रेक्षोपमा । शारदी कौमुदी सप्तवाधिं यदि विलङ्घते । वर्तते यदि नित्यं साधत्तां कीर्तेस्तवोपमाम् ॥ ३३ ॥ १. निर्मितेनियमोपमा । For Private and Personal Use Only ५७
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy