________________
Shri Mahavir Jain Aradhana Kendra
५६
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शृङ्गारार्णवचन्द्रिका
[ Ix. 18 -
अयं श्रीरायभूमीशस्त्रिवर्गकलितो महान् । शूरो धीरो महात्यागी राजनीतिविशारदः । १८ ॥ आरामे रायबङ्गस्य कोकिलाः श्यामविग्रहाः । मधुरस्वरसंपृक्ता वसन्ते चित्तहारिणः ॥ १९ ॥ कलकण्ठजातिस्वभाववर्णनम् ।
चुम्बति स्पृशति प्राणनायिकां जिघ्रति क्षणम् । पिबति प्रेक्षते गाढमालिङ्गति च रायराट् ॥ २० ॥ क्रियास्वभाववर्णनम् ।
रतौ रायमहीनाथे सुखमन्तातिगं महत् । कामसिद्धान्तविज्ञानं कामिनीचित्तरञ्जकम् ।। २१ ।। कलाज्ञानकामसुखगुणस्वभाववर्णनम् ।
कोटीरराजितो हारदिव्यकुण्डलभूषितः । सिंहासनसमारूढो रायबङ्गी विराजते ||२२|| किरीटहारादि विशिष्टद्रव्यस्वभाववर्णनम् । जातिक्रियागुणद्रव्यस्वभावापेक्षया जात्यलंकारश्चतुर्विधः । पक्षान्तरमिदम् । येनोपमीयते यत्र यत्किचिद्येन केनचित् ।
प्रकारेणोपमा सा तस्या भेदोऽयं प्रतन्यते ॥ २३ ॥ कादम्बनाथ सा कीर्तिर्धवला कौमुदीव ते । प्रतापमण्डलं रक्तं भाति बालार्कबिम्बवत् ॥ २४ ॥
धावल्यरक्तत्वधर्माभ्यामुपमेति धर्मोपमा ।
श्रीरायभूप कीर्तिस्ते शारदी कौमुदीव सा । तेजोमण्डलमुद्याति बालभास्करबिम्बवत् ।। २५ ।। अत्र धर्मनिरूपणं न कृतमिति उपमानोपमेयवस्तुमात्रकथनाद् वस्तूपमा ।
१. द्रव्यविशिष्ट' ।
For Private and Personal Use Only