SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- IV. 155 ] ४. नायकभेदनिश्चयः कृताश्रूणां शङ्कादीनां सांकर्य रमणीजने। किलकिञ्चितमित्युक्तं शृङ्गाररसकोविदैः ॥१४७॥ कादम्बनाथमदनेन सुधाधरेऽलं संपीडिते मधुरचुम्बनपानपूर्वम् । तन्वी तनोति मुदमश्रु च तर्जनं च सीत्कारताडनविनोदपदप्रहारात् ॥१४८॥ नाथस्य चित्रे वस्त्रे च प्रतिमाभरणादिषु । नाथभावेन या बुद्धिः सा मोट्टायितमुच्यते ॥१४९॥ स्मृत्वा निजेशं स्वाङ्गस्य भङ्गो जृम्भणपूर्वकः । पृष्ठादिनमनादिर्वा मोट्टायितमुद्गीरितम् ॥१५०॥ रायरूपपटीं दृष्ट्वा तन्वी मोहेन चुम्बति । आलिङ्गति च रायेन्द्र इति मत्वा प्रमोदिनी ॥१५१॥ आलीजनेन नृपकुञ्जररायबङ्गे संवणिके मनसि तत्स्मरणं विधाय । गात्रं विवर्तयति बाहुयुगं च तन्वी - 'वक्रं करोति मदनग्रहपीडिता सा ॥१५२॥ आलिङ्गने चुम्बनादौ कृते वा जीवितेशिना । अन्तरङ्गे सुखं बाह्ये रोषः कुट्टमितं यथा ॥१५३॥ आलिङ्गय चुम्बति नृपे सति रायबङ्गे नारी मनोजसुखवाधिगतापि चित्ते । हस्तेन कम्पनयुतेन निवारयन्ती रोषं करोति पुलकालिविराजमाना ॥१५४॥ गर्वगौरवमालम्ब्य तरुण्यानादरः कृतः । जीवितेशे स बिब्बोकः कथ्यते रसिकैर्जनैः ॥१५५॥ १. चक्र। For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy