SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [ IV. 156 - आगत्य रायनृपतौ निजपादयुग्मे नत्वापराधमखिलं रमणि क्षमस्व । इत्युक्तिमात्तविनयां वदति प्रवीणां मर्मज्ञया वनितया न कृतः कटाक्षः ॥१५६॥ शरीरावयवन्यासः स्निग्धकोमलतायुतः । तरुणीजनसंबन्धी ललितं प्रतिपाद्यते ॥१५७॥ भ्रूविक्षेपं किसलयमदं वाग्विलासं सुमाभं नेत्रालोकं कुवलयनिभं पादपकेजयानम् । चन्द्रौपम्यं मधुरहसनं कौमुदीसाम्ययुक्तं कृत्वा कान्ता जनयति मुदं रायभूमीश्वरस्य ॥१५८॥ वक्तुं योग्यमपि स्वान्तस्स्थितं नारी निजेशिना । न ब्रूते लज्जया यत्तद्विहृतं परिभाषितम् ॥१५९॥ उद्याने प्रीतियुक्ता विमलसलिलसत्क्रीडनेच्छापि कान्ता प्रासादारोहरक्ता मधुरतरलसत्कन्दुकक्रीडनेच्छा। दोलालीलामनीषा सुकविकृतमहाकाव्यगोष्ठीप्रसक्ता न ब्रूते वीडया या मुदमनयदिमां तन्मनोज्ञो निजेशः ॥१६०॥ विनयादिगुणाः प्रोक्ता नेतृसाधारणा हराः । 'गुणाष्टकं च दृष्टान्तास्तेषामूह्या विवेकि भिः ॥१६१।। यथोचितं नायकोक्तभावहावादयो गुणाः । तेषामुदाहृतिर्जेया नायकेऽपि विशारदे ॥१६२॥ भो भो वीरनृसिंहराय नृपते लोकत्रये सन्ति ये नेतारो बहवश्च तेऽपि सुलभा श्चेतोहरा नो सताम् । नानावाग्मिकवीश्वरस्तुतिपदानेकोरुकीर्तिप्रथः धीरोदात्ततया प्रसिद्धपुरुषो लोके भवानेव वै ॥१६३॥ इति नायकभेदनिश्चयो नाम चतुर्थः परिच्छेदः । १. गाणाष्टकं, २. श्चेतोहरौ । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy