________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मल
दौपदी चरित्रम्
SACREASURESARCH
लवणसमुद्रतटे समायातः. परं श्रीकृष्णस्तु तदा समुद्रबहुभागमुल्लंघ्याले गतोऽभूत्. कपिलवासुदेवेन 2 निजपांचजन्यशंखमापूर्य मिलानर्थं कृष्ण आकारितः, परं कृष्णेनापि निजशंखमापूर्य तस्मै ज्ञापितं, सां: प्रतं मया समुद्रस्य भूरिभाग उल्लंघितोऽस्ति, अतो मे भवन्मिलनाथं पश्चादागमनं न भविष्यति. एवं तयोर्द्वयोरपि वासुदेवयोः केवलं शंखनादैरेव परस्परं जगदाश्चर्यभूतः संवादो जातः. एवं पांडवद्रौपदी-18 युतः श्रीकृष्णो विघ्नरहितं लवणसमुद्रमुल्लंघ्य द्वारिकायां निजस्थाने समायातः. अथैकदा श्रीनेमिनाथो जिनेश्वरस्तत्र द्वारिकायां समवसृतः, तदा कुंतीमाता निजपुत्रैः पांडवैः पुत्रवधूभिश्च सह प्रभोवंदनार्थं गता. प्रभुणापि तेभ्यो धर्मोपदेशो दत्तः, यथा-त्रैकाल्यं जिनपूजनं प्रतिदिनं संघस्य सन्माननं । स्वाध्याया है गुरुसेवनं च विधिना दानं तथावश्यकं ॥ शक्त्या च व्रतपालनं वरतपो ज्ञानस्य पाठस्तथा । सैष श्रावकपुंगवस्य कथितो धर्मो जिनेंद्रागमे ॥१॥ दिने दिने मंजुलमंगलावलिः । सुसंपदः सौख्यपरंपरा च॥ इष्टार्थसिद्धिर्बहुला च बुद्धिः । सर्वत्र सिद्धिः सृजतां सुधर्म ॥ २ ॥ दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुभभावना च ॥ भवार्णवोत्तारणसत्तरंडं । धर्म चतुर्धा मुनयो वदंति ॥३॥ इत्यादिधर्मोपदेश
For Private and Personal Use Only