________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४)
अन्वयः- नेतः ! त्रैलोक्यलोकस्तवनीय ! सुमते ! मृगाङ्क ! गौरकान्ते ! पद्मप्रभ ! सुपार्श्व ! महसेनपुत्र ! ते मुखं पुंसां सुखाय भूयात् ॥ २ ॥
विवृतिः- नेत: ! = नायक !, अप्रणीरित्यर्थः । यो घमणीभवति, स स्वानुगतान् कृत्याकृत्ये उपदिशति, अकृत्यपरिहारेण च कृत्ये एव प्रवर्तयति, स्वयं च तत्र प्रवर्तते, तद्वज्जिनोऽपि जनानिति सष्ठूक्तं नेतरिति । त्रैलोक्यलोकस्तवनीय ! = त्रिभुवनजनस्तुत्य !, अन्ये हि कतिभिरेव, अयं तु त्रिभुवनजनैरिति व्यतिरेकध्वनिः, यद्वा यो हि त्रिभुवनजनानां हितचिन्तकः, सत्पथप्रवर्तयिता, निःस्पृहश्व, स एव तैः स्तुत्यः। वीतरागतया परमकारुणिकतया चायमेव तथा नान्य इति त्रैलोक्यलोकस्तवनीयेत्युचितमेव । यद्वा त्रैलोक्यलोक! इति स्तवनीय ! इति च पृथक्सम्बोधनम् । तथा च त्रैलोक्यं लोकतेऽबलोकते सकलज्ञानावरणीयकर्मक्षयजन्यकेवलज्ञानेनेति स तत्सम्बोधने, सर्वज्ञ! इत्यर्थः । स्तवनीय ! = स्तुतियोग्य ! न तु स्तोतुं शक्य!, गुणानामसमत्वादिति ध्वनिः । सुमते ! = तदाख्यतीर्थङ्कर !, सद्बुद्धे ! इतिध्वनिः । मिथ्यात्वगन्धस्याप्यभावाद्, उपदेशादिना जनानां तन्नाशकत्वाञ्चेति भावः । मृगाङ्क ! = हरिणलाञ्छन ! श्री शांतिनाथेत्यर्थः । यद्वा मृगाकश्चन्द्रः, नामैकदेशेनामग्रहणाच्चंद्रप्रभेत्यर्थः । गर्भस्थे भगवति मातुश्चंद्रपानदोहदभावात्तदाख्यतीर्थङ्करेत्यर्थः ! महसेनपुत्र ! = महसेनाऽऽख्यनरवरसुत !, श्रीचन्द्रप्रभेत्यर्थः । गौरकान्ते ! = विशदशरीरच्छवे ! पद्मप्रभ ! = तदाख्यतीर्थंकर !, कमलतुल्यकान्ते ! इति ध्वनिः । सुपार्थ = तदाख्यतीर्थकर ! गर्भस्थे भगवति जनन्याः सुपार्श्वभावादिति भावः।
For Private And Personal Use Only