SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (३) रनभिभूत इति ध्वनिः । अस्मिन्नजिते गर्भस्थे द्यूतादिक्रीडायां राज्ञाऽ स्य जननी न जितेत्यनुसन्धानेन पित्रा गृहीताऽजितनामक । इति च । श्रीशम्भव ! = तदाख्यतृतीयतीर्थङ्कर ! श्रीयुक्तेऽस्मिन् स्तुते शं शुभं भवतीति व्याख्यानेन च श्रीशुभकारक इति ध्वनिः । अभिनन्दन ! = तदाख्यचतुर्थतीर्थङ्कर !, गर्भात्प्रभृत्येवाभीक्ष्णं शक्रेणाभिनन्दनादिति भावः, हर्षप्रद | इति ध्वनिः । त्वं नन्द्याः = अभिवर्धस्व, अस्य प्रकृते सर्वत्राऽन्वय: ॥ १ ॥ समस्तपदविग्रहः --- प्रीणितभव्य सार्थ! - भव्यानां सार्थः स प्रीणितो येन सः, तत्सबुद्धौ । समस्तदोष! = समस्ता दोषा येन सः, तत्सम्बोधने | दोषाजित ! = इतिच्छेदे तु = दोषैरजितः, तदामन्त्रणे । तीर्थनाथ ! = तीर्थेषु नाथः, तदामन्त्रणे । तीर्थानां नाथ इति षष्ठीसमासस्तु शेषषष्ट्या, न तु निर्धारणषष्ठ्या, तया समासनिषेधानुशासनात् । जिनर्षभ | = जिनेषु जिनानां वा ऋषभ इति पूर्ववत्समासः । जिनश्वासौ ऋषभश्चेति कर्मधारयो वा तदामन्त्रणे । अजित ! = न जितः, तदामन्त्रणे । समस्तदोषाजित ! इत्येकसंबोधनत्वेन व्याख्याने समस्ताः सकलाश्च ते दोषाश्च, तैरजितः, तत्सम्बोधने । श्रीशम्भव ! = श्रीयुतः शम्भवः, तदामन्त्रणे । श्लोकत्रयं यावदुपजातिश्छन्दः ॥ १ ॥ ● । मूलम् सुखाय पुंसां सुमते ! मुखं ते Acharya Shri Kailassagarsuri Gyanmandir मृगाङ्क ! पद्मप्रभ ! गौरकान्ते ! | सुपार्श्व ! नेतर्महसेनपुत्र ! त्रैलोक्यलोकस्तवनीय ! भूयात् ॥ २ ॥ उपजातिः For Private And Personal Use Only
SR No.020149
Book TitleChaturvinshati Jin Stav
Original Sutra AuthorN/A
AuthorJinprabhsuri, Ashokchandravijay
PublisherShree Sangh
Publication Year1957
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy