________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२)
अन्वय:- प्रीणितभव्यसार्थ ! समस्तदोष! तीर्थनाथ ! आखण्डलवन्ध ! प्रजानां स्वामिन् ! जिनर्षभ ! अजित ! श्रीशम्भव ! अभिनन्दन! त्वं नन्द्याः ॥१॥
विवृति:-प्रीणितभव्यसार्थ = हे प्रसादितप्राणिसङ्घ ! अहिंसादिपञ्चमहाव्रतादिदेशनया सर्वजन्तूनां प्रमोदोत्पत्तेरिति भावः । समस्तदोष! = परित्यक्तरागादिनिखिलदूषण ! यद्वा - समस्त ! इति दोषाजित ! इति च भिन्नपदेनापि व्याख्यानम् । तथाच - समस्त ! = सम्पूर्ण !, जलरत्नादिभिः समुद्र इव ज्ञानदर्शनचारित्रादिभिः समृत इत्यर्थः दोषाजित! रागादिदोषानभिभूत ! ज्ञानादिना रागादिसकलदोषाणां दूरीकरणात्ते एव पराजिताः, न तु स्वयं तैरभिभूतः, स्वस्मिन् तेषां सत्त्वकथाया अप्यभावादिति सुष्ठुक्तं दोषाजित ! इति । तीर्थनाथाभवसागरसन्तरणसाधनीभूतप्रवचनाधारचतुर्विधसङ्घाधिप । आखण्डलवन्ध! =इन्द्राभिवादनीय! । “इन्द्रो हरिश्च्यवनोऽच्युताग्रजो वनी विडोजा मघवान् पुरन्दरः। प्राचीनबर्हिः पुरुहूतवासवौ सङ्क्रन्दनाऽऽ खण्डलमेघवाहनाः ॥” इत्यभिधानचिन्तामाणिः (२-८५)। प्रजानां जनानाम्" "लोको जनः प्रजा" इत्यभि० (३-१६५)। स्वामिन्! = ईश ! तस्य वीतरागत्वेन यद्यपि कस्यापीशितृत्वं न सम्भवति, तथापि परमकारुणिकतया भवबन्धभिन्मार्गोपदर्शनेनाऽनुगृहीतै जनै भक्तिप्रवणतया एवमुच्यते इतिभावः। जिनर्षभः = जिनश्रेष्ठ!। यद्वा-जिन इति ऋषभ इति च पृथक्पदं सम्बोधनम् । तथा च-जिन ! = रागद्वेघमोहादिजेतृपुङ्गव!, ऋषभ ! = तदाख्यतीर्थकर!, उर्वोर्वृषभलान्छनसत्त्वाज्जनन्या चतुर्दशानां स्वाप्नानामादौ वृषभदर्शनाद्वेतिभावः । अजित ! = तदाख्यद्वितीयतीर्थकर !, श्लिष्टव्याख्यानेन परिषहादिभि
For Private And Personal Use Only