________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥
॥८॥
परिच्छेदः प्रथमः॥
णोक्तानवस्थोद्धारायोगाद्विपर्ययस्यापि कल्पयितुं शक्यत्वात् , एतेन समानविषयेऽनुमितिसामग्रीकाले प्रत्यक्षसामग्रीसत्त्वे पर्वते वयनुमित्सायां वहिप्रत्यक्षेच्छायां च सत्यां पर्वतो वहिमानित्यनुमित्यापत्तिः, न चेष्टापत्तिः, स्वभावतो बलवती यस्य सामग्री तद्विषयेच्छासत्त्वे तस्यैवोत्पत्त्यभ्युपगमादिति पर्वतोद्देश्यकवतिविधेयकानुमितौ तथाविधप्रत्यक्षान्यज्ञानत्वावच्छिन्ने वा तथाविधप्रत्यक्षेच्छाविशिष्टायाः पर्वतो वहिमानिति प्रत्यक्षसामग्र्या अपि प्रतिबन्धकत्वान्तरं कल्पनीयम् , न चानुमित्सायां प्रत्यक्षेच्छाया उत्तेजकत्वस्वीकारेणैव निर्वाहः, प्रत्यक्षेच्छाभावानुमित्सयोर्विशेषणविशेष्यभावे विनिगमकाभावेनानन्तप्रतिवध्यप्रतिबन्धकभावकल्पनाबाहुल्यात् , प्रतिबन्धकतावच्छेदकगौरवाच्च, एवं प्रत्यक्षेच्छाभावकालेऽनुमित्सादशायामनुमितिसामग्रीसच्चे प्रत्यक्षसामग्रीबलात् प्रत्यक्षापत्तिवारणाय समानविषयकप्रत्यक्षं प्रति समानविषयकप्रत्यक्षेच्छाभावविशिष्टसमानविषयकानुमित्साविशिष्टानुमितिसामग्या अपि स्वातन्त्र्येण प्रतिबन्धकत्वं कल्पनीयमित्याद्यपास्तम्, प्रत्यक्षानुमितीच्छयोभिन्नोपयोगरूपयोरेकदाज्जायमानत्वेनोक्तकल्पनाया निर्मूलत्वात् , एतेनैव भिन्नविषयान्तर्भावणानुमितिसामग्रीप्रतिबन्धकत्वकल्पनाजालमपास्तम् । एवं हि तद्भिन्नविषये प्रत्यक्षानुमितिसामग्रीद्वयदशायामनुमितिरेवोत्पद्यते न प्रत्यक्षम् , तदुत्तरमनुमिनोमीत्यनुव्यवसायादिति तत्र प्रत्यक्षं प्रत्यनुमितिसामय्याः प्रतिबन्धकत्वं कल्पनीयम् , पक्षपरामर्शादिप्रत्यक्षानुत्पत्तेरन्यथानुपपत्तेश्च । तत्र चन सामान्यतः प्रत्यक्षत्वावच्छिन्नेऽनुमितिसामग्रीत्वेन प्रतिबन्धकता, समानविषयेऽनुमितिसामग्रीकाले प्रत्यक्षानुत्पत्तिप्रसंगात् , नापि वह्निभिन्नप्रत्यक्षं प्रति ववयनुमितिसामग्रीत्वेन प्रतिबन्धकता, अवच्छेदककोटौ प्रत्यक्षेच्छाया उत्तेजकत्वावश्यकत्वेन घटपटादिप्रत्यक्षेच्छाभावकूटस्यैकत्र निवेशे पटप्रत्यक्षसामग्र्यभावदशायां पटप्रत्यक्षेच्छाबलाद्विरोधिसामग्रीकाले घटादिप्रत्य
ASHOGAT
॥८॥
For Private And Personal Use Only