________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
क्षापत्तेः, किन्तु घटप्रत्यक्षं प्रति घटप्रत्यक्षेच्छाभावविशिष्टवह्न धनुमितिसामग्रीत्वादिना विशिष्य प्रतिबध्यप्रतिबन्धकभावः स्वीकर्त्तव्यः, न च तथापि घटस्पार्शनेच्छादिबलाद् घटचाक्षुषाद्यापत्तिः, घटत्वप्रकारतानिरूपितघटविशेष्यताशालिचाक्षुषादौ तादृशचाक्षुषादिविषयकेच्छाभावविशिष्टवह्नयनुमितिसामग्रीत्वादिना प्रतिबन्धकत्वान्तरस्यापि कल्पनात्, न चैवं वहयनुमितिसामग्रीसत्त्वे यत्किञ्चिज्ज्ञानं जायतामितीच्छाकाले घटादिचाक्षुषापत्तिः, घटत्वप्रकारकत्वनिष्ठप्रकारतानिरूपिता या घटविशेष्यकत्वप्रकारता तद्भिन्नयत्किञ्चिद्विशेष्यकत्वनिष्ठप्रकारत्वानिरूपितत्वे सति घटत्वप्रकारकत्वावच्छिन्नघटविशेष्यकत्वप्रकारतानिरूपिता या चाक्षुषविशेष्यता तच्छालीच्छात्वेनोत्तेजकत्व स्वीकारात्, उपदर्शितेच्छायास्तथाविधविषयत्वाभावेन दोषाभावात्, न च वथनुमितिसामग्रीकाले चाक्षुषं जायतामितीच्छासच्त्वेऽपि घटचाक्षुषानुपपत्तिस्तादृशेच्छायास्तथाविधविषयत्वाभावेन तादृशविषयताशालीच्छाविरहविशिष्टवह्नयनुमितिसामग्रीसत्त्वादिति वाच्यम्, तादृशेच्छायामप्यनुमित्यवृत्तिधर्मनिष्ठप्रकारतानि - रूपिता सती या यत्किञ्चिद्विशेष्यकत्वनिष्ठप्रकारत्वानिरूपिता चाक्षुषविशेष्यता तच्छालीच्छात्वेन स्वातन्त्र्येणोत्तेजकत्वाभ्युपगमात् वह्निभिन्नविषयकानुमित्यन्यज्ञानत्वावच्छिन्न एव वह्नयनुमित्साविशिष्टवह्नयनुमितिसामग्र्या अपि स्वातन्त्र्येण प्रतिबन्धकत्वाच्च न वह्नयनुमित्साविशिष्टवह्नयनुमितिसामग्रीकाले घटादिचाक्षुषेच्छासत्त्वे घटादिचाक्षुषापत्तिः घटादिचाक्षुषेच्छायां वह्नयनुमित्साया उत्तेजकत्वं तु न वाच्यम्, विशेषणविशेष्यभावे विनिगमकाभावेन महागौरवात् वह्निभिन्नविषयकत्वं च वह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यताभिन्नमुख्य विशेष्यताकत्वम्, तेन पर्वतो वह्निमानिति प्रत्यक्षस्यापि वह्निभिन्नवह्नित्वादिविषयकत्वेन न व्यभिचारः, मुख्यविशेष्यतात्वं च प्रकारताभिन्नविषयतात्वम्, अतो न घटघटत्वादिनिर्वि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*****