SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एव, उपयोगात्मनोऽप्यष्टस्वात्मसु पारमर्षे प्रतिपादनात् स चानुमानोपयोगप्रतिबन्धको द्रव्यार्थिकनयमते, पर्यायार्थिकनयमते च सुषुप्तौ ज्ञानानुत्पाद निर्वाहार्थमुपयोगसिद्धेर्यत्सामान्ययोरित्यादिन्यायात्प्रत्यक्षहेतुत्वेन सिद्ध आत्मधर्म उपयोगविशेषः, तथा प्रत्यक्षोपयोगेनात्मस्थानुमानोपयोगोत्पादानुकूलशक्तिविघटनात् तस्य तत्त्ववृत्त्या तत्प्रतिबन्धकत्वोपपत्तेः इति न तदानुमितिः; अनुमित्साया अपि तदुपयोगनिवृत्तिकाल एवाभ्युपगमादिति किमधिकेनाकाण्डताण्डत्वेन । किञ्च न्यायनयेऽप्यनुमितौ प्रत्यक्षसामग्र्याः प्रतिबन्धकत्वं न कल्प्यते, किन्तु कार्यकालवृत्तितया प्रत्यक्षाभावस्य हेतुत्वमित्यस्मिन्नेव पक्षे लाघवम्, निर्णयत्वेन सिद्धेः प्रतिबन्धकत्वाकल्पनात्, पर्वतो वह्निव्याप्यवान् वह्निव्याप्यव्याप्यवानित्यादिपरामर्शादनुमितिधारावारणायानुमितावनुमितित्वेनैव परं तत्कल्पनात्, प्रत्यक्षसामय्यभावस्यानुमितौ हेतुत्वे तु विनश्यदवस्थप्रत्यक्षसामग्रीजन्यप्रत्यक्षोत्तरमनुमित्यापत्तिवारणायानुमितौ प्रत्यक्षसाधारणतथाविधनिर्णयत्वेनैव प्रतिबन्धकत्वं कल्पनीयं स्यात्, अन्यथाऽनिर्वाहात्, न चैवं भाविवह्निप्रत्यक्षमप्रमेत्यप्रामाण्यग्रहकालीनविनश्यदवस्थवह्निप्रत्यक्षसामग्युत्पादित्वह्निप्रत्यक्षद्वितीयादिक्षणेऽ नुमितिसामग्रीतोऽनुमित्यनुत्पादप्रसङ्ग : अप्रामाण्यग्रहाभावविशिष्टवह्निप्रत्यक्षत्वेन प्रतिबन्धकत्वकल्पनात्, न चैवं सत्युपदर्शितस्थले प्रत्यक्षोत्पादकाले वह्नचनुमित्यापत्तेर्दुर्वारत्वम्, तत्रानायत्या तत्क्षणविशिष्टाप्रामाण्यग्रहस्यैवोत्तेजकत्वस्वीकारात् उक्तोपदर्शितस्थलेऽनुमित्यनुत्पत्ताविष्टापत्तेर्वा, न चोपदर्शितसामग्रीचतुष्टयमेलनदशायां परस्परप्रतिबन्धकवशात् कस्यापि फलस्यानुदयेन तदा प्रत्यक्षाभावकारणवलादनुमित्यापत्तिवारणं समानविषये प्रत्यक्षसामग्र्याः प्रतिबन्धकत्वकल्पनं विना दुष्करमितिवाच्यम्, तदानीं परमते चक्षुर्मनोयोगादिविगमकल्पनेनास्मन्मते चान्यतरोपयोगविगमकल्पनेन सामग्रीचतुष्टयमेलनस्यैवासिद्धेः, अन्यथा स्वाभ्युपगममात्रे - For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy