________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
CARSHAN
नन्विति प्रमाणसंप्लववादिनामिति प्रमाणसम्प्लव एकत्रार्थे प्रवृत्तिरनेकप्रमाणस्य, प्रत्यक्षनिश्चितेऽनाविति, प्राचीनप्रणयानुरोधिप्रसङ्गमात्रमेतत् , प्रत्यक्षनिश्चितेऽग्नौ धूमेऽपि च पर्वते वह्वयनुमित्सायां तदनुमितेरप्यभ्युपगमाच्छद्धादवगतस्य च वझेः पर्वते तत्प्रतिवद्धधूमसाक्षात्कारादनुमितेस्त्वयाऽपि स्वीकारात् सिद्धिमात्रस्य प्रतिबन्धकत्वानिष्टेः, यत्करणकं हेतुज्ञानं तत्करणसाध्यनिश्चयत्वेनानुमितिप्रतिबन्धकत्वेप्रामाणिकमहागौरवप्रसङ्गात् , सिद्धिप्रतिबन्धकतायां सिसाधयि- | पाया उत्तेजकत्वमात्रस्यैव युक्तत्वात् , अत एव सिसाधयिषातदभावाभ्यां शतशः"प्रत्यक्षपरिकलितमप्यर्थमनुमिमीषन्त्यनुमानरसिकाः" " नहि करिणि दृष्टे चीत्कारेण तमनुमिमतेऽनुमातार इति" वाचस्पतिवचनयोरविरोधमुपपादयन्ति नैयायिकाः, वदन्ति च सिसाधयिषाविरहविशिष्टसिद्ध्यभावं पक्षताया लक्षणम् , नहि सिसाधयिषामात्र पक्षता, विनापि सिसाधयिषां घनगर्जितेन मेघानुमानात् , नापि साध्यसन्देहो, विनापि सन्देहं धनगर्जितेन मेघानुमानादिति यथोक्तं युक्तम्, यत्र सिद्धिर्नास्ति तत्र सिसाधयिषायां सत्यामसत्यामपि यत्र च सिसाधयिषाऽस्ति तत्र सिद्धौ सत्यामसत्यामपि पक्षताया यत्र च सिद्धिरस्ति सिसाधयिषा च नास्ति तत्र पक्षताभावस्येत्थमुपपत्तेः, यद्यपि सिसाधयिषासिद्धिपरामर्शानां नैककाले सम्भवो, योग्यविभुविशेषगुणानां योगपद्यनिषेधात् , परामर्शानन्तरं सिद्धौ ततः सिसाधयिषायां च सिसाधयिषाकाले परामर्शनाशादेव नानुमितिः, सिद्धिपरामर्शसिसाधयिषाणां क्रमेण भावे च सिसाधयिषाकाले सिद्धिनाशात्प्रतिबन्धकामावादेवानुमितिरिति सिसाधयिषाविरहविशिष्टत्वं सिद्धेविशेषणं न युज्यते, तथापि यत्र परामर्शः सिद्धिश्चोभयं युगपदेव वहिव्याप्यधूमवान् पर्वतो वहिमाँश्चेति ततः सिसाधयिषा ततोऽनुमितिस्तत्र पक्षतासम्पत्तये तद्विशेषणावश्यकत्वमिति, वयं तु ब्रूमः-तदाकारानुमितौ तदा
For Private And Personal Use Only