________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः॥
अष्टसहस्त्री विवरणम् ॥ ॥४॥
आत्मानमधिश्रित्य वर्तमानोऽध्यात्ममन्तरङ्गो विग्रहादिमहोदयः शश्वनिःस्वेदत्वादिः परानपेक्षत्वात्। ततो बहिर्गन्धोदकवृष्ट्यादिबहिरङ्गो देवोपनीतत्वात् । स च सत्यो मायाविष्वसत्त्वात् । दिव्यश्च मनुजेन्द्राणामप्यभावात् । स एष (भाष्यम्-बहिरन्तःशरीरादिमहोदयोपि पूरणादिष्वसम्भवी व्यभिचारी स्वर्गिषु भावादक्षीणकषायेषु । ततोपि न भवान् परमात्मेति स्तूयते ॥२॥) अथ यादृशो घातिक्षयजः स भगवति न तादृशो देवेषु येनानैकान्तिकः स्यात्, दिवौकस्वप्यस्ति रागादिमत्सु स नैवास्तीति व्याख्यानादभिधीयते तथाप्यागमाश्रयत्वादहेतुः पूर्ववत् । ननु प्रमाणसंप्लववादिनां प्रमाणप्रसिद्धप्रामाण्यादागमात्साध्यसिद्धावपि तत्प्रसिद्धसाधनजनितानुमानात्पुनस्तत्प्रतिपत्तिरविरुद्धैवेति चेन्न, उपयोगविशेषस्याभावे प्रमाणसंप्लवस्यानभ्युपगमात् । सति हि प्रतिपत्तुरुपयोगविशेषे देशादिविशेषसमवधानादागमात्प्रतिपन्नमपि हिरण्यरेतसं स पुनरनुमानात्प्रतिपित्सते, तत्प्रतिबद्धधूमादिसाक्षात्करणात्प्रतिपत्तिविशेषघटनात् पुनस्तमेव प्रत्यक्षतो बुभुत्सते, तत्करणसम्बन्धात्तद्विशेषप्रतिभाससिद्धेः, न चैवमागममात्रगम्ये साध्ये साधने च तत्प्रतिपत्तिविशेषोस्तीति किमकारणमत्र प्रमाणसंप्लवोभ्युपगम्यते, प्रत्यक्षनिश्चितेऽनौ धूमे च तदभ्युपगमप्रसङ्गात् । सर्वथा विशेषाभावात्। ततो देवागमनभोयानचामरादिविभूतिभिरिवान्तरङ्गवहिरङ्गविग्रहादिमहोदयेनापि न स्तोत्रं भगवान् परमात्माहेति ॥ २॥ तर्हि तीर्थकृत्सम्प्रदायेन स्तुत्योहं महानिति भगवदाक्षेपप्रवृत्ताविव साक्षादाहुः
॥
४
॥
For Private And Personal Use Only