SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ॥ ॥५॥ www.kobatirth.org कारानुमानोपयोगस्यैव साध्यसन्देहसिसाधयिषाकालानुगतस्य हेतुत्वं तदाकारत्वं चानुमानोपयोगे तदाकारानुमितिजनकतावच्छेदको जातिविशेषः, पटजनकतावच्छेदक इव तन्तौ, अत एव पटाकारपरिणततन्तुत्वेन पटोपादानत्वं नतु तन्तुत्वमात्रेणेति स्फुटीभविष्यत्युपरिष्टात्, इत्थं चोक्तोपयोगहेतुतयैवानतिप्रसङ्गे नोक्तपक्षतात्वेन हेतुत्वं, सिद्धिसिसाधयिषाविरहयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण गुरुतरानन्तकार्यकारणभावप्रसङ्गात्, सत्यां सिसाधयिषायां त्रिचतुरक्षणव्यवधानेन सिद्धिपरामर्शसद्भावेऽनुमित्यनुदयप्रसङ्गाच्च तदा सिसाधयिषाविरहविशिष्टसिद्धिसत्त्वादुपयोगस्य तु दीर्घकालिकस्यानुगतस्याभ्युपगमान्नानुभूयमानानुमित्यपलाप इति । एतेन सिद्धिपरामर्शसत्त्वे यत्किञ्चिज्ज्ञानं जायतामितीच्छायामप्यननुमितेः प्रत्यक्षातिरिक्तज्ञानं जायतामितीच्छायां चानुमितेः सिसाधयिषाविशेषविरहनिवेशक्लेशोऽपि निरस्तः । यथाकार्यदर्शनं विलक्षणोपयोगस्य कल्पनेनानतिप्रसङ्गात्, तल्लिङ्गकानुमितौ तल्लिङ्गकोपयोगस्य विशिष्य हेतुत्वाच्च न धूमपरामर्शसत्त्वे आलोकेन वह्निमनुमिनुयामितीच्छायामप्यनुमिति: । अथ पर्वतो वह्निमानित्यनुमितौ सत्यां पर्वते वह्नयनुमानोपयोगस्याभावात् तत्र सिद्धेः प्रतिबन्धकत्वापेक्षयानुमितावेव तत्कल्पनं न्याय्यमिति चेत्, न, साध्यसन्देहसिसाधयिषाऽन्यतरानुगतस्यैवानुमानोपयोगस्य कल्पनात्, घनगर्जितेन मेघानुमानस्थलेप्यव्यक्तसाध्यसंशयकल्पनात्, अस्तु वा गर्जितेन मेघज्ञानं प्रातिभमेव, अप्रतिभस्य किं गर्जतीति संशयस्यैवोदयात्, अन्यथानुपपत्तिग्रहापेक्षत्वे तु तस्य तत्स्थलीयस्य केवलान्यथानुपपत्तिग्रहस्यैवानुमानोपयोगत्वम्, क्वचित् सिसाधयिषाविघटकत्वेऽपि सिद्धेरनुमानोपयोगप्रतिबन्धकत्वे तु मानाभावः । तेन पर्वतस्तेजस्वी पापा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥ ५॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy