________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
निरसनीय इति दिक् । श्रद्धागुणज्ञताभ्यामिति श्रद्धागुणज्ञते नयस्याद्वादपरीक्षाजन्यज्ञानविशेषौ दर्शनशद्धवाच्यौ । तदुक्तं सम्मतौ — “ एवं जिणपन्नत्ते, सद्दहमाणस्स भावओ भावे । पुरिसस्साभिणिबोहे, दंसणसद्दो हवइ जुत्तो ॥ १॥ ” त्ति, प्रयोजनत्वं च तयोर्मुख्यप्रयोजनाङ्गतया गौणमित्यभिप्रेत्याह
ताभ्यां प्रर्युक्तमनस इति महान्न स्तुत्योऽसीति, प्रश्नानुरूपत्वादुत्तरस्य न महत्त्वप्रकारकस्तुतिविषयोऽसीत्यर्थः । तथा च सूत्रे महत्पदं महत्वेन स्तुत्येऽर्थान्तरसङ्क्रमितवाच्यम्, वस्तुतो महत्पदं स्तुत्यार्थकमेव, अतिशयप्रतीतिः प्रयोजनमित्युक्तविभूत्या निश्चयरूपातिशयेन न स्तुत्यः, व्यवहारतस्तु स्तुत्यत्वे न विरोध इत्यर्थः सम्मुखीन आभाति,
भाष्ये ताश इति तादृशस्य देवागमादेरित्यर्थः । परमार्थेत्यादिः कैश्चिदित्यन्तः पूर्वपक्षः, सोऽपीत्यारभ्य ग्रन्थकृतः सिद्धान्तः, प्रकृतहेतुमिति पारमार्थिकविभूतिमच्चहेतुमित्यर्थः । यद्यप्यसत्यहेतुना साध्यस्य न व्यभिचारोऽज्ञानजनितविलक्षणधूमादेरनभ्युपगमादन्यथा प्रतिनियतकार्यकारणभावाद्युच्छेदेन सर्वत्रानाश्वासप्रसङ्गात् हेतुज्ञानासत्यत्वं च न व्यभिचारे प्रयोजकं, किन्तु कदाचित्साध्यज्ञानासत्यत्वइति न ततोऽनुमितिप्रतिबन्धः, तथापि व्यभिचारवारकविशेषणविशिष्टत्वरूपं सत्यत्वमभिप्रेत्याक्षुद्रदेवागमादिहेतुमुपन्यस्येदं खण्डनमिति मन्तव्यम् ॥ १ ॥ आगमाश्रयेणापि हेतुना हेतुवादरसिकानामनुमानात् साध्यसिद्धौ परितोषः किं न स्यादित्याशयवान् शङ्कते - अध्यात्मं बहिरप्येष विग्रहादिमहोदयः । दिव्यः सत्यो दिवौकस्स्वप्यस्ति रागादिमत्सु सः ॥ २ ॥
१ एवं जिनप्रज्ञप्तान्, श्रद्दधानस्य भावतो भावान् । पुरुषस्याभिनिबोधे, दर्शनशब्दो भवति युक्तः ॥ १ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir