SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir स बन्ध' इति वचनात् , ततोन्यतोपि बन्धाभ्युपगमेतिप्रसङ्गात् , क्षीणोपशान्तकषायस्याप्यज्ञानाद्वन्धप्रसक्तेः । प्रकृतिप्रदेशबन्धस्तस्याप्यस्तीति चेत्, न, तस्याभिमतेतरफलदानासमर्थत्वात् सयोगकेवलिन्यपि संभवादविवादापनत्वात् । न चात्रागममात्रं, युक्तरपि सद्भावात् । तथा हि, विवादापन्नः प्राणिनामिष्टानिष्टफलदानसमर्थपुद्गलविशेषसंबन्धः कषायैकार्थसमवेताज्ञाननिबन्धनस्तथात्वात्पध्येतराहारादिसंबन्धवत् । नात्र प्रतिज्ञार्थंकदेशत्वादसिद्धो हेतुर्धर्मिणानेकान्तात् , तस्य प्रतिज्ञार्थधर्मिधर्मसमूहैकदेशत्वेपि प्रसिद्धत्ववचनात् , अनित्यः शब्दः शब्दत्वादित्यत्रापि हेतोरसिद्धत्वविरोधात् । न चात्र विशेष धर्मिणं कृत्वा सामान्य हेतुं ब्रुवतः कश्चिदोषः, प्रयत्नानान्तरीयकः शब्दो विनश्वरः, प्रयत्नानान्तरीयकत्वाद् घटवदिति यथा। ननु शब्दस्य धर्मित्वे पक्षाव्यापको हेतुः स्यात् , समुद्रघोषादेः प्रयत्नानान्तरीयकत्वाभावात्। ततोत्र प्रयत्नानान्तरीयकः शब्दो विशिष्टो धर्मीति चेत् , तर्हि प्राणिनां पुद्गलविशेषसंबन्धस्य धर्मित्वे तथात्वस्य च हेतुत्वे दृष्टान्तासिद्धिप्रसक्तेः प्रकृतिप्रदेशबन्धाभ्यामनैकान्तिकत्वप्रसङ्गाच्च विवादापन्नत्वविशेषणमिष्टानिष्टफलदानसमर्थत्वविशेषणं च युक्तम् , इष्टानिष्टफलदानसमर्थपुद्गलविशेषसंबन्धत्वस्य हेतोः कषायैकार्थसमवेताज्ञाननिबन्धनत्वेन व्याप्तस्य पथ्येतराहारादिषु पुद्गलविशेषसंबन्धे सुप्रसिद्धत्वादुदाहरणस्य साध्यसाधनधर्मवेकल्याभावात् , हेतोश्चानन्वयत्वासंभवात् , विवादापन्नो धूमोनिजन्मा धूमत्वान्महानसधूमवदित्यादिवत् । न चेष्टानिष्टफलदानसमर्थः कर्मबन्धः पुद्गलविशेषसंबन्धो न भवति, पुद्गलसंबन्धेन विपच्यमानत्वाद्रीह्यादिवत् । जीवविपाकिषु कर्मसु तदभावात्पक्षाव्यापको हेतुरिति चेत् , न, तेषामपि सकर्मजीवसंबन्धेन विपच्यमानत्वात् पुद्गलसंबन्धेन विपच्यमानत्वस्य प्रसिद्धेः, पुद्गलक्षेत्रभवविपाकिकर्मवत् पक्षव्यापकत्वसिद्धेः । पूर्वानुभूतविषयस्मरणेन सुखदुःखदायिषु कर्मसु तदभावात् पक्षाव्यापकत्वमस्य हेतोरित्यप्यनेन निराकृतं, परम्परया पुद्गलसंबन्धेनैव तेषां विपच्यमानत्वाच्च । न किंचित्कर्म साक्षा For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy