SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ Shri Maharan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersun Gyanmandir अष्टसहस्त्री विवरणम् ॥ ॥३३४॥ ज्ञानोत्पत्त्ययोगेन सुगतस्य केवलिन एवासिद्धेः। यदि च यथा कण्टक एव कण्टकं हरति, पित्तादिदोषोत्पादनेनैव चौषधं वाता-10 परिच्छेदः दिदोषं तथा शमदमाद्यविद्याविलास एव संसारमूलाविलासमिति मतं, तदा केवलादज्ञानाद्वन्ध इति स्वप्रक्रियाव्याघात एव, दशमः॥ कषायैकार्थसमवेताज्ञानस्यैव बन्धहेतुत्वप्रसक्त्याऽस्मन्मतसाम्राज्यात् , अपकृष्टाज्ञानस्य तत्वज्ञानाप्रतिबन्धकत्वोक्तावप्युत्कृष्टाज्ञानत्वेन तत्प्रतिबन्धकत्वव्यवस्थितावुत्कर्षस्य कषायसामानाधिकरण्यातिरिक्तत्वे मानाभावात् , अन्यव्यावृत्त्यादिविशेषस्य तत्र तत्र बहुशो निर्लोठितत्वादितिदिग् । ज्ञाननिहासात् अल्पज्ञानहानेः ॥१६॥ विरोधान्नोभयैकात्म्यं, स्याद्वादन्यायविद्विषाम् ॥ अवाच्यतैकान्तेप्युक्ति-र्नावाच्यमिति युज्यते॥९७॥ न हि सर्वात्मनैकस्यैकदा ज्ञानस्तोकान्मोक्षो बहुतश्चाज्ञानाद्वन्ध इत्येकान्तयोरविरोधः स्याद्वादन्यायविद्विषां सिध्यति, येन तदुभयैकात्म्यं स्यात् । तथाऽवाच्यतैकान्ते स्ववचनविरोधः पूर्ववत् ॥१७॥ ___कुतस्तर्हि पुण्यपापबन्धः प्राणिनां येनाबुद्धिपूर्वापेक्षायामिष्टानिष्टं स्वदैवतः स्यात् ? कुतो वा मोक्षो मुनेर्यतः पौरुषादिष्टसिद्धिबुद्धिपूर्वा स्यात् ? चार्वाकमतमेव वा 'बन्धमोक्षाभाव एव परलोकाभावादिति न भवेत् ? इत्यारेका निराचिकीर्षवः प्राहुःअज्ञानान्मोहिनो बन्धो, न ज्ञानाद वीतमोहतः॥ज्ञानस्तोकाच्च मोक्षःस्याद-मोहान्मोहिनोन्यथा ॥९॥ मोहनीयकर्मप्रकृतिलक्षणादज्ञानायुक्तः कर्मबन्धः स्थित्यनुभागाख्यः स्वफलदानसमर्थः, क्रोधादिकषायैकार्थसमवायिनो मिथ्याज्ञानस्य च अज्ञानस्य च मोहनीयकर्मप्रकृति लक्षयतः पुंसो बन्धनिबन्धनत्वोपपत्तेः 'सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते ॥३३४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy