________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥३३५॥
अष्टसहस्री ४ त्परम्परया वात्मन: पुद्गलसंबन्धमन्तरेण विपच्यमानमस्ति येन पौद्गलिकं न स्यात् । ततो न कर्मबन्धस्य पुद्रलविशेषसंबन्धित्वमविवरणम् ॥ सिद्धम् । नापीष्टानिष्टफलदानसमर्थत्वं दृष्टकारणव्यभिचारे शुभेतर फलानुभवनस्य स्वसंविदितस्यादृष्टहेतुत्वसिद्धेः, रूपादिज्ञानस्य चक्षुराद्यदृश्यहेतुवत् । नन्वेवमज्ञानहेतुकत्वे बन्धस्य मिध्यादर्शनादिहेतुत्वं कथं सूत्रकारोदितं न विरुध्यते इति चेत्, मिथ्यादर्शनाविरतिप्रमादकपाययोगानां कषायैकार्थसमवाय्यज्ञानाविनाभाविनामेवेष्टानिष्टफलदान समर्थकर्मबन्धहेतुत्वसमर्थनात् मिथ्यादर्शनादीनामपि संग्रहात् संक्षेपत इति बुध्यामहे । ततो मोहिन एवाज्ञानाद्विशिष्टः कर्मबन्धो न वीतमोहादिति सूक्तम् । तथैव बुद्धेरपकर्षान्मोहनीयपरिक्षयलक्षणान्मोक्ष्यति विपर्यये विपर्यासादित्यधिगन्तव्यं, प्रकृष्टश्रुतज्ञानादेः क्षायोपशमिकात् केवलापेक्षया स्तोकादपि छद्मस्थवीतरागचरमक्षणभाविनः साक्षादार्हन्त्यलक्षणमोक्षस्य सिद्धेः । तद्विपरीतात्तु मोहवतः स्तोकज्ञानात् सूक्ष्मसम्परायान्तानां मिथ्यादृष्ट्यादीनां कर्मसंबन्ध एव । इति चिन्तितमन्यत्र ॥ ९८ ॥
' मोहनीयेति ' मोहनीय कर्मप्रकृतिरत्र कषायाख्या ग्राह्या, तल्लक्षणात्तद्विशिष्टात्, मिथ्याज्ञानस्याज्ञानस्य चेति प्रसज्यपर्युदासाभ्यामज्ञानपदस्योभयार्थत्वादिति भावः । 'क्षीणोपशान्तेति' न चैवं कषायत्वेनैव सामान्यतो बन्धहेतुता, किं कषायविशिष्टाज्ञानत्वेन गुरुतरकार्यकारणभावेनेति वाच्यम् । अन्वयव्यतिरेकग्रहस्यैव तत्र साक्षित्वात् तयोश्च पथ्येतराहारादिसम्बन्धदृष्टान्तेन कर्मपुद्गलसम्बन्धं प्रत्यज्ञानत्वेनैव प्रसिद्धेः, तत्रातिप्रसङ्गभङ्गार्थं पुनः कषायैकसमवेतत्व विशेषणनिवेशात्, पादौ तन्तुत्वादिना कारणत्वेऽप्यन्वयव्यतिरेकानुविधानस्यैव प्रयोजकत्वात्, अन्यथा शक्तिविशेषाभावविशेषादेरेव हेतुत्वप्रसङ्गाद्विशेषणविशेष्यभावेन विनिगमनाविरहस्याप्यत एव निरासादिति दिग् । न चात्रेति पक्षतावच्छेदकावच्छेदेन
For Private And Personal Use Only
परिच्छेदः दशमः ॥
॥३३५॥