SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailascagarsuri Gyanmandir अष्टसहस्री परिच्छेदः नवमः॥ विवरणम्॥ ॥३३॥ यत्वेऽनुकम्पादानादेरपि तथात्वापत्तेः। न द्वितीयः, प्राग्दशायामारुरुक्षुतयारूढत्वस्याप्रसङ्गेनैतत्पातित्यपरिहारार्थताया दुरापास्तत्वात् । न तृतीयः, स्वातन्त्र्येण निर्जरार्थताया उत्तरदशायामप्यव्याहतत्वेन तदा विषकुम्भत्ववचनस्यैव विषकुम्भत्वापत्तेः । अत एव न चतुर्थादयः, सिद्धयोगस्य योगसाधनानपेक्षणात् , पूर्व तु तदपेक्षावश्यकत्वात् ॥ अष्टमोऽवशिष्यते, सोऽपि, “ यान्येव साधनान्यादौ, गृण्हीयाद् योगसत्वकः (साधकः) ॥ सिद्धयोगस्य तान्येव, लक्षणानि विदुर्बुधाः॥१॥" इत्युक्तरीत्या निर्लोठनीयः । शमदमादीनामिव प्रतिक्रमणादिक्रियाया उत्तरदशायां योगिनो लक्षणत्वेन विषकुम्भत्वायोगात् , प्रत्युत स्थिरामृतकुम्भत्वस्यैव सिद्धेः, न चाव्यभिचारिलक्षणत्वाभावान्नैवं, स्वकालेऽव्यभिचारित्वात् , पर्यन्ते तु शुद्धधर्मसन्न्यासोत्पत्तौ क्षायोपशमिकानां शमदमादीनामपि नाशोपगमात् , तस्मात् पूर्वोत्तरभूमिकयोर्वचनासङ्गानुष्ठानतयैव क्रियामेदो यथाऽस्मत्साम्प्रदायिकैर्लक्षितस्तथा श्रेयान् , न तु परोक्तामृतविषकुम्भदृष्टान्तेन, परायां दृष्टौ समाधिकाले आरूढारोहणाभावन्यायेन क्रियाया अनुपयोगाभिधानं तु शमादेरिवाभिनवग्रहणापेक्षया, न तु विषकुम्भत्वदृष्ट्या, प्रतिपन्ननिर्वाहस्यान्ततो लोकशिक्षार्थ परमयोगिनोऽप्यभिधानात् , शुभोपयोगकालेऽपि साधोः क्रियातोधर्मप्राप्तिश्च पुष्टिशुद्धिमचित्तान्वयेन लक्षणीया, तस्यैवोभयोपयोगसाधारणत्वेन धर्मलक्षणत्वात् , उभयसंवलनेऽपि शुद्ध्याधिक्येन साधोधर्माधिकारित्वाव्याहतेः, अधिकारद्वयफलदयकल्पनायां गौरवाच्चारित्रधर्मप्रवृत्तावशुभोपयोगराहित्यस्यैकाधिकारस्यैव कल्पने लाघघात् , गुप्तिमत एवाधिकारित्वे तु गुप्ति त्वमेकं प्रवीचाराप्रवीचारसाधारणमधिकारतावच्छेदकमेकं कल्पनीयम् , किंबहुना धर्मार्थिक्रियायामनुषङ्गतः पुष्टेः प्राधान्यतश्च शुद्धराप्तिरिति न काचन क्षतिः। एवं च स्थिरादिदृष्टिमतां सूत्रोक्ता प्रतिक्रमणादिक्रिया रत्नशिक्षानियोजनदृष्टिवद्भिन्नभिन्नैव ॥३३०॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy