SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir शुद्धिनिबन्धनं, नतूत्तरोत्तरं तद्विलोप एवेति प्रतिपत्तव्यम् । यथा च युक्ताहारविहारक्रियाप्रवचनसारायुक्तक्रमेण चारित्रोपयोगिनी तथा युक्तोपकरणधारणादिक्रियापि किं न स्यात् "जं पि वत्थं व पायंवा" इत्यादिविधिशतानां तत्रोपलम्भाव, बायपुद्गलप्रवृत्तेर्मु निमित्तत्वे आहारादावप्यप्रवृत्यापत्तेः, आहारादिक्रिया ध्यानदीपे तैलप्रचारतुल्यत्वेनाश्रयणीयत्वे युक्तोपकरणधारणस्यापि निर्वातदेशस्थापनतुल्यत्वेनाश्रयणीयत्वाविशेषात् , नान्यस्य चारित्रासाधारणकारणत्वेन मूलगुणत्वे वस्त्रस्य च तत्प्रतिबन्धकत्वेऽभ्युपगम्यमाने न किश्चित्पापायेत्यादिस्वप्रतिज्ञाया एव दुरुत्प्रेक्षितत्वापत्तेः, तस्मात् ।। "मूच्छाच्छन्नधियां हन्त, जगदेव परिग्रहः ॥ मूर्छया रहितानां तु, जगदेवापरिग्रहः ॥१॥” इत्याद्यस्मदुक्तं विमृश्य धर्मलक्षणं च पुष्टिशुद्धिमच्चित्तरूपमेवादृत्य यथासूत्रं प्रवृत्त्यैव शुद्धाभ्यवसायनिर्वाहः कार्य इत्यस्माकं हितोपदेशः॥१५॥" वक्तव्यमेव किल यत्तदशेषमुक्त-मतावतैव यदि चेतयते न कोऽपि । व्यामोहजालमतिदुस्तरमेव नूनं, निश्चेतनस्य वचसामतिविस्तरेऽपि ॥१॥ विशुद्धिसंक्लेशजपुण्यपापे, प्रतिक्रिया यत्र नियम्यते नो ॥ ज्ञानेऽन्यहेतुश्च निज(जिन)प्रसादा-द्विना जिनाज्ञा मम सा प्रमाणम् ॥२॥ इति महोपाध्यायश्रीयशोविजयगणिविरचितेऽष्टसहस्रीतात्पर्यविवरणे नवमः परिच्छेदः ॥ -- -- For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy