SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir तदभावानालम्बनत्वात् , नापि शुक्तिमण्डम् , अतदाकारत्वात् , नापि रजताकारेण शुक्तिखण्डम् , अन्यस्यान्याकारेण दुर्ग्रहत्वादित्यख्यातिरेवेयमित्यख्यातिवादोऽपि केषांचिनिरस्तः । एवं भ्रान्तेर्निरालम्बनत्वे भ्रान्तिसुप्तावस्थयोरविशेषप्रसङ्गात् , न हि भ्रान्तौ प्रतिभासमानार्थव्यतिरेकेण सुप्तावस्थातोऽन्योऽस्ति विशेषः । स्वातिरिक्तबाह्यार्थानुपपत्तौ च तदंशे सत्रख्यातिरेव ज्ञानवाद्याश्रिता स्यानाख्यातिरिति यत्किञ्चिदेतत् ।। बौद्धास्त्वसत्रख्यातिमाचक्षते, तथा हीदं रजतमिति भासमानं वस्तु ज्ञानमर्थों वा भवेत् , न तावज्ज्ञानम् , अहं रजतमित्यहंकारसामानाधिकरण्येनाप्रतिभासनात् , नाप्यर्थः, तत्साध्यार्थक्रियाभावात् इत्यस देव तत्तत्र प्रतिभातमिति, तेऽपि न सूक्ष्मक्षिणः। तथाहि-असत् ख्यातिरिति कोऽर्थः, किमेकान्तासतोऽर्थस्य प्रथनम् , उत | देशान्तरे विद्यमानस्य, द्वितीयपक्षे विपरीतख्यातिरेवेयं, देशान्तरे विद्यमानस्य शुक्तिदेशे प्रतीतिस्वीकारात् , आद्यपक्षे त्वेकान्तासतोऽर्थस्य प्रथने शशविषाणस्यापि प्रतीतिः स्यात् , एतेन रजतं सदेव तत्संसर्गस्त्वलीको भ्रान्तौ सदुपरागेण भासत इति न्यायटीकाकृन्मतमप्यपास्तम् , विषयतायाः सद्वृत्तित्वव्याप्यत्वात् , अन्यथा गवि शशशृङ्गीयत्वविशिष्टसम्बन्धेन शृङ्गभानापत्तेः, अपि चासत् सत्त्वेन प्रतिभातीति विपरीतख्यातिमर्यादाया नातिक्रमः। यदपीदं रजतमिति भासमानं वस्तु ज्ञानमर्थों वा भवेदिति विकल्पद्यमकारि, तत्राद्योऽनभ्युपगमानिरस्तो, द्वितीयस्त्विष्यत एव, अर्थविशेषनिबन्धनचरणाभरणाद्यर्थक्रिया भावेऽप्यर्थसामान्यनिबन्धनाभिलापप्रवृत्त्याद्यर्थक्रियायास्तत्राव्याहतत्वात् , बाधकप्रत्ययेन च मिथ्याज्ञानस्य मिथ्यात्वमुपदादयते, न तु तद्विषयस्यार्थत्वं बाध्यत इति नासत्रख्यातिमनोरथस्ताथागतानां श्रेयान् । केचित्तु प्रसिद्धार्थख्यातिमाहुः, | विपर्ययेऽपि प्रतीतिप्रसिद्धस्यैवार्थस्य भानात् , न च विचारासहत्वात्तद्विषयस्याविद्यमानत्वं, प्रतितेरेव विचारत्वात् करस्थ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy