________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
**
म
अष्टसहस्री विवरणम् ॥
परिच्छेदः सप्तमः॥
*
॥३१६॥
*
*
स्थूलमुक्ताफलेऽपि तयैव विचारसहत्वसिद्धेः, न चोत्तरकाले प्रतिभासाभावाद्धान्तिविषयस्यासत्त्वं, तत्समयप्रतिमासेनापि तोयबुद्दादेरिव सत्वाव्याघातादिति, तेऽपि न ख्यातिभाजः प्रमाणसिद्धि विनार्थस्य प्रसिद्धत्वायोगात् , अन्यथा भ्रान्ताभ्रान्तव्यवस्थानुपपत्तेः, यच्च प्रतिभाससमये सत्त्वाद् भ्रान्तिविषयस्य रजतस्य प्रसिद्धत्वमुच्यते, तद् यद्यन्यदेशस्थस्य तस्य दोषमाहात्म्येन शुक्तौ भानात् , तदा प्रसिद्धार्थख्यातिरित्यन्यथाख्याते मान्तरमायातं, यदि च शुक्तिदेशस्थस्य, तदा तस्य स्थिरत्वादुत्तरकालेऽपि भानापत्तिः, अज्ञानजस्य ज्ञाननाश्यस्य च तस्य स्वीकारे मतान्तरप्रवेशापत्तिरिति यत्किनिदेतत् । परे तु शुक्तिशकले यत्कलधौतं चकास्ति तस्य बाह्यतया प्रतिभानं नोपपत्तिमत्, नेदं रजतमिति बाधकेन तद्बाह्यताया बाध्यमानत्वात् , ततो ज्ञानात्मन एवायमाकारोऽनादिवासनामाहात्म्यात् बहिरिव परिस्फुरतीत्यात्मख्यातिरेवेयमित्याहुः, तेऽपि न प्रेक्षावन्तो, नेदं रजतमिति बाधकेन तद्बाह्यताया अबाधनात् , हट्टादौ बाह्यस्थस्य तस्य परं शुक्तिदेशस्थताया एव बाधनात् । यदपि न्यगादि ज्ञानात्मन एवायमाकारोऽनादिवासनामाहात्म्याबहिरिव परिस्फुरतीति, सदस्यसत्यं, वासनाया बहुशो निरस्तत्वात् । किञ्च-ज्ञानाकारस्यैव रजतस्य संवेदनेऽहं रजतमित्यन्तर्मुखतया प्रतीतिः स्यात्, न विदं रजतमिति बहिर्मुखतया, ज्ञाननिष्ठोऽपि रजताकारोऽनादिवासनामाहात्म्याच्छुक्तिनिष्ठतया भासत इत्युक्तौ चान्यथाख्यातिरेवाङ्गीकृता स्यात् । अपि च स्वाकार एव रजतादिर्धान्तिभिर्वहीरूपतया प्रकाश्यत इत्यत्र न प्रमाणमस्ति, अनुभवस्य कलधौतज्ञानाकारासाक्षित्वात् , बाधकप्रत्ययस्यापि शुक्तौ रजतनिषेधकत्वेन रजते ज्ञानाकारताया अविधायकत्वात् , न च रजते पुरोवर्तिशुक्त्याकारत्वप्रतिषेधेाद्वोधाकारत्वसिद्धिरित्यपि साम्प्रतं, शुक्त्याकारत्वप्रतिषेधेाद्देशान्तरसत्त्वस्यैव सिद्धेः, रष्टातिक्रमेणा
2528454552
॥३१६॥
For Private And Personal Use Only