________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः | सप्तमः॥
अष्टसहस्त्री विवरणम्॥
॥३१५॥
नत्वेन प्रथनात् । अथ संविन्मात्रतयैव रजतसंवित्तिः प्रतिभाति, तदपि न निरवा, रजतमिति विषयोल्लखस्यानुभूगमानत्वात् , स्मरणानुभवलक्षणविशेषशून्यायाश्चात्र प्रघट्टके विषयसंवित्तेरनुपपद्यमानत्वात् , यदप्युक्तं बाधकप्रत्ययश्चेदमन्यद्रजतमन्यदिति विवेकमेव प्रकाशयतीत्यादि, तदपि मिथ्या, बाधकप्रत्ययेन प्रसक्तरजतत्वाभावस्यैवावगाहनात् , अप्रसक्ताविविक्तत्वप्रतिषेधेन विविक्तत्वानवगाहनात् , यदप्युक्तं स्वमे चेदं रजतमित्यादौ स्मरणत्वाग्रह एव विवेकाग्रह इत्यादि, तदपि तुच्छम् , रजतादिस्वप्ने स्मरणत्वेनाग्रहे रूपान्तरेण ग्रहे विपरीतख्यात्यापत्तेः, सर्वात्मनाऽग्रहणस्य च ग्रहणविरुद्धत्वात् , यदप्युक्तमेवं चन्द्रद्वयवेदने दोषाद् द्विधा कृतया नयनवृत्त्या चन्द्रकत्वाग्रह एवेति, तदप्यविचारितरमणीयं, द्विधा कृता हि तिमिरेण नायनी वृत्तिर्यदि नाम कुमुदबन्धोरेकत्वं नावबुध्यते, मावबूबुधत् , विपरीतस्तु द्वित्वानुभवः कथमिति विचार्यतां, नयनसमाश्रितद्वित्वासंसर्गाग्रह एव चन्द्रे द्वित्वग्रह इत्यस्यापि परोक्षस्य तस्योपस्थित्यभावेनैवानाश्रयणीयत्वात् , एतेन तिक्ता शर्करेत्यादिव्यवहारस्य पित्तद्रव्यगततिक्तत्वशकराग्रहभेदाग्रहनिबन्धनत्वमुक्तं प्रत्युक्तम् , अगृह्यमाणतिक्तत्वस्यैव पित्तस्य शरीरगतस्य ज्वरोत्पादकत्ववद्रसनगतस्य विपरीतप्रत्ययोत्पादकत्वात् सर्वानुभूयमानसामानाधिकरण्यानुपपत्तेश्च । अपि चेदं रजतमिति यदि संवेदनद्वयमभ्युपगभ्यते, तदा तस्य किं यौगपद्येन पर्यायेण वा प्रादुर्भावः स्यादिति वक्तव्यम् , आद्ये स्वकृतान्तकोपः, द्वितीयेऽपि किं प्रत्यक्षात् पूर्वमुतोत्तरं रजतस्मरणं भवेत् , नावः, इदमिति प्रत्यक्षात्पूर्व संस्कारानुद्रोधेन रजतस्मृत्यनुत्पत्तेः, न द्वितीयो, निमीलितनयनस्यापि तत्प्रसक्तेरिति सकललोकसिद्धं सकृदेव रजतात्मना पुरोवर्तिभानं दुरपदवमिति मन्तव्यम् । एतेनेदं रजतमिति प्रत्यये न रजतसत्ताऽऽलम्बनम् , अभ्रान्तत्वप्रसक्तेः, नापि तदभावो, रजतविधिपरस्य प्रत्ययस्य
CRORECASSETTE
॥३१५॥
For Private And Personal Use Only