SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥२७७॥ www.kobatirth.org ativa मित्यनन्तरं स्यादिति शेषः । ' कौटस्थ्यविरोधादिति, ' यद्यपि क्रमभाविपूर्वापरस्वभावत्यागोपादाननियतः कौटस्थ्यविरोधो न युगपदनेकस्वभावत्वे, तथापि युगपदेकस्यानेकस्वभावव्यापित्वाविरोधवत् क्रमेणापि तस्य तत्प्राप्तौ कौटस्थ्यं विरुध्यत एवेति द्रष्टव्यम् । इयमेव दिग् निरन्वयक्षणिकत्वव्याघातेऽपि । तदुभयसंस्कारजनितमिति । न च संस्कारजन्यत्वे प्रत्यभिज्ञानस्य ततस्तत्तोल्लेख एव स्यानेदंतोल्लेख इति शङ्कनीयम् । उल्लेखविशेषे विषयताविशेषस्यैव प्रयोजकत्वाद्वह्निपर्वतयोरनुमिनोमि नानुमिनोमीतिवदिति द्रष्टव्यम् । कथं सम्प्रत्ययोपाध्यायः कथं विश्वासगुरुर्न कथञ्चित्, प्रत्येकाविरोधवत् समुदायाविरोधस्यानुभवसाक्षित्वादिति भावः । इदानींतनतयेति, न च क्षणस्यायोग्यतया प्रत्यक्षे मानायोगः, “ सम्बद्धं वर्त्तमानं च गृह्यते चक्षुरादिनेति " वचनादिति वाच्यम् । योग्योपसर्जन तयाऽयोग्यस्यापि वर्त्तमानक्षणस्य क्षयोपशमोपनीतस्य प्रत्यक्षे भानाविरोधात्, संसर्गतया वास्तु स (त) द्भानाविरोध इति दिगु । योगित्वापत्तिः तत्प्रत्यक्षस्य योगिप्रत्यक्षत्वाप (तेः) त्तिः, ततः क्षणिकं कालभेदादिति नानाक्षणसम्बन्ध भेदादित्यर्थः । अपोद्धारकल्पनयेति अपोद्धारकल्पना तनिमित्तभेदविवेचनं, कथञ्चिज्जात्यन्तरे सखण्डधर्मतादात्म्य सहिष्णावखण्डपदार्थे, सर्वथा जात्यन्तरे सर्वथा नित्ये सर्वथाऽनित्ये च परस्परनिरपेक्षे । अशक्यविवेचनत्वस्यैकत्वनिबन्धनत्वेऽतिप्रसङ्गमाशङ्कते न चेत्यादिना, अशक्यविवेचनत्वं तत्रासिद्धम्, आश्रयभेदेन विवेचनशक्तेरित्युत्तरयति - तेषामित्यादिना तत्रैकद्रव्यमित्यन्तेन, सदाद्यात्मनाऽऽकाशादीनां तादात्म्याश्रयणे तु सङ्ग्रहनयार्पणया देशाभेदेनैकद्रव्यत्वमिष्टमेवेत्याह- तादात्म्ये पुनरित्यादिना, इदं तु ध्येयम्, सत्त्वादिनात्माकाशादीनामेकत्वं यद्यप्येकजातीयत्वव्यवहारनिबन्धनं, न त्वेकद्रव्यत्वव्यवहारनिबन्धनं, घटादिपर्याये मृदादौ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः तृतीयः ॥ ॥२७७॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy