SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ Shri Maharlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandi सत्त्वादिनैकद्रव्यत्वानिष्टेः, तथाऽपि सत्त्वादिपर्याये द्रव्यत्वेनैवोर्ध्वतासामान्यत्वात्सदात्मनैकद्रव्यत्वं सर्वत्राविरुद्धं, तथा व्यवहारश्च सत्त्वादिपर्याप्याश्रयतावच्छेदकावच्छेदेनैव, तेन सर्वमेकं द्रव्यं सदविशेषादितिवत् घट एकद्रव्यमित्यादिर्न प्रयोग इति सूक्ष्ममीक्षितव्यम् । उभयदोषप्रसङ्ग एकत्वानेकत्वपक्षयोः सौगताद्वैतवाद्यापादितदोषापत्तिः । 'अचौरेति' चौरा पारदारिकाच यथाऽचौरापारदारिको जात्यन्तरं, तथा केवलादुत्पादादेखयात्मकं वस्त्विति भावः। अनुपलम्भसाधन(ना) हात्वादिति, एकग्रहप्रतिबन्धकग्रहविषयत्वस्यैवान्यत्र विरोधपदार्थत्वोक्तेरिति भावः । चलनाभावादिति चलितप्रतिपत्तेरेव संशयलक्षणत्वात् , चलितत्वं चैकधर्मिकविरुद्धनानाकोटिकज्ञानत्वमिति विरोधाभावे ज्ञाने तदसिद्धेरिति भावः ॥ ५६ ॥ केन पुनरात्मनाऽनुत्पादविनाशात्मकत्वात्स्थितिमात्रं ? केन चात्मना विनाशोत्पादावेव ? कथं च तत् वयात्मकमेव वस्तु सिद्धम् ? इति भगवता पर्यनुयुक्ता इवाचार्याः प्राहुः.न सामान्यात्मनोदति न व्यति व्यक्तमन्वयात् । व्यत्युदेति विशेषात्ते सहकत्रोदयादि सत् ॥ ५७॥ ___पूर्वोत्तरपरिणामयोः साधारणः स्वभावसामान्यात्मा द्रव्यात्मा । तेन सर्व वस्तु नोत्पद्यते न विनश्यति च व्यक्तमन्वयदर्शनात् । लूनपुनर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति चेत् . न, व्यक्तमिति विशेषणात् , प्रमाणेन बाध्यमानस्यैकत्वान्वयस्याव्यक्तत्वात्। न चात्रान्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात् । ततोन्वितात्मना स्थितिरेव । तथा विनश्यत्युत्पद्यते च सर्व वस्तु विशेषानुभवात् । भ्रान्तविशेषदर्शनेन शुक्ले शङ्ख पीताद्याकारज्ञानलक्षणेन व्यभिचार इति चेत् , न, व्यक्तमिति विशेषणस्यानुवृत्तेः। न हि भ्रान्तं विशेषदर्शनं व्यक्तं, येन तदपि पूर्वाकारबिनाशाजहद्वत्तोत्तराकाराविनाभावि स्यात् । न च प्रकृते विशेषदर्शनमव्यक्तं, बाधकाभावात् । नित्यै For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy