SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तत्प्रत्यभिज्ञानम्, अकस्मान्निर्विषयं, न । कुतः तदविच्छिदा विच्छेदनं विच्छित्, न विच्छिदविच्छित् तया, अभेदरूपाविच्छेदानुभवादित्यर्थः । विपर्यये इत्याध्याहार्यम् । विपर्यये स्यान्नित्यत्वाऽभावे, बुद्ध्यसञ्चरदोषतोऽनुभवपरिणतस्यात्मनः स्मृतिपरिणामरूपैकत्वगमनानापत्तेः, क्षणिकस्य क्रमिकोभयपरिणामानाधारत्वादिति भावः । एवं तत्तेदंतापरिणतबुद्धिविषयैक्यानुपपत्तेर्विपर्यये विषयतोऽपि बुद्ध्यसञ्चरदोषापत्तिर्व्याख्येया । तथा ते तव मते, जीवाजीवादिवस्तु कथञ्चित् क्षणिकं प्रत्यभिज्ञायमानत्वात् न च प्रत्यभिज्ञानमाकस्मिकं तत्तेदंतापरिणामद्वयोपरागेणाविच्छेदानुभवात्, सर्वथैक्यस्य विषयत्वे स स इत्यापत्तेः, स्थूलकालभिन्नाभेदमाने च क्षणभिन्नधर्मामेदमानस्याप्यर्थतः सिद्धत्वात्, भिन्नकालयोर्द्धर्मयोरेकत्र धर्मिणि तादात्म्येन भाने तयोर्मिथोऽपि स्वावच्छेदककालान्यकाल वृत्तित्वसम्बन्धेनान्वयादिति भावः । न चात्राप्रयोजकत्वं कथञ्चित्क्षणिकत्वाभावे दर्शनस्मरण बुद्ध्योः पूर्वोत्तरपर्यायाप्रवृत्याऽसञ्चरणदोषापत्तेः । क्षणिकर्माभिन्नत्वाच्च धर्मिणोऽपि क्षणिकत्वं कथञ्चिदविरुद्धमेव । वस्तुतः क्षणसम्बन्धस्य क्षणे वस्तुनि च लाघवादेकस्यैव कल्पनात् सिद्धमनायासेन सर्वत्र क्षणिकत्वमिति पत्रावलम्बने प्रदर्शयिष्यामः । ' प्रमाणान्तरं नानुमानादप्रत्यक्षमिष्यते क्षणिकवादिभिरिति ' अनुमानभिन्नं प्रमाणन्त्वप्रत्यक्षं क्षणिकवादिभिर्देष्यते इत्यर्थः, यद्यपि प्रमाणान्तरमित्यत एव प्रकृतबुद्धिविषयतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन प्रमाणप्रतियोगिकभेदवत्प्रमाणमित्युक्तार्थो लभ्यत एव न तदर्थं विशिष्य प्रतियोगितावच्छेदकावच्छिन्नवाचकपदमपेक्ष्यते, नीलो घटोऽस्ति न घटान्तरमित्यादौ तथा दर्शनात्, तथाऽप्यनुमानादिति स्पष्टार्थमिति मन्तव्यम् । नापि युगपदनेकस्वभावत्वमिति नित्ये क्षणिके चेति गम्यम् । यतो ४७ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy