________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥२७६॥
परिच्छेदः तृतीयः॥
संविद्वेद्यवेदकाकाराणां नानाज्ञानत्वप्रसङ्गात् । तेषामशक्यविवेचनत्वादेकज्ञानत्वे स्थितिजन्मविनाशानामपि कचिदेकवस्तुत्वमस्तु, तदविशेषात् । कचिदेकत्र रूपरसादीनामप्यशक्यविवेचनानामेकवस्तुत्वापत्तिर्नानिष्टकारिणी, तेषां नानावस्तुत्वानिष्टेः । न चात्माकाशादीनां देशाभेदेप्यशक्यविवेचनत्वं, तेषां परैकद्रव्यतादात्म्याभावात् । सत्तैकद्रव्यतादात्म्ये पुनरेकवस्तुत्वमिष्टमेव स्याद्वादिनाम् " एक द्रव्यमनन्तपर्यायम्" इति वचनात् । ततो न वैयधिकरण्यम् । एतेनोभयदोषप्रसङ्गोपास्तो, वेद्याद्याकारात्मबोधवदुत्पादाद्यात्मवस्तुनो जात्यन्तरत्वात् , अचौरपारदारिकवचौरपारदारिकाभ्याम् । न चैवं विरोधप्रसङ्गः, तस्यानुपलम्भसाधनादेकत्रैकदा शीतोष्णस्पर्शवत्, स्थित्यादिषु चोपलम्भसद्धावादेकवस्तुन्येकदानुपलम्भासिद्धेः संविदि वेद्याद्याकारवत् । एतेन संशयप्रसङ्गः प्रत्युक्तः, स्थित्याग्रुपलम्भस्य चलनाभावात् । तत एव न संकरप्रसङ्गः, स्थित्यात्मन्युत्पादविनाशानुपलम्भादुत्पादविनाशयोश्च स्थित्यनुपलब्धेः । एकवस्तुनि युगपत्स्थित्याधुपलम्भात्सङ्कर इति चेत् , न, परस्परमसङ्करादुत्पादादीनाम् । तद्वति तु सङ्करो वस्तुलक्षणमेव । एतेन व्यतिकरप्रसङ्गो व्युदस्तः, स्थित्यादीनां परस्परगमनाभावात् संविदि वेद्याद्याकारवत् । तत एव नानवस्था, स्थित्यात्मनि जन्मविनाशानिष्टेर्जन्मात्मनि स्थितिविनाशानुपगमाद्विनाशे स्थितिजन्मानवकाशात् प्रत्येकं तेषां त्रयात्मकत्वानुपगमात् । न चैवमेकान्ताभ्युपगमादनेकान्ताभावः, सम्यगेकान्तस्यानेकान्तेन विरोधाभावात् , नयार्पणादेकान्तस्य प्रमाणार्पणादनेकान्तस्यैवोपदेशात् तथैव दृष्टेष्टाभ्यामविरुद्धस्य तस्य व्यवस्थितेः ।। ५६ ।।
नित्यमित्यादि, ते तव मते, तज्जीवाजीवाद्यधिकृतं वस्तु, नित्यं स्यान्नित्यमेव, कमात् प्रत्यभिज्ञानात् तदेवेदमिति प्रत्यभिज्ञायमानत्वात् , न च ध्वंसाप्रतियोगित्वे साध्ये घटादौ व्यभिचारोऽक्षणिकत्वे साध्ये चोद्देश्यासिद्धिरिति वाच्यम् । तदेतत्कालवृत्तिध्वंसाप्रतियोगित्वस्य साध्यत्वे दोषाभावात् , स्यान्नित्यत्वस्य तद्धर्मावच्छिन्नस्यात्रैव पर्यवसानादिति बोध्यम्
॥२७६॥
.
For Private And Personal Use Only