________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बष्टसहस्त्री विवरणम् ॥ ॥२७२॥
परिच्छेदः तृतीयः॥
NEW ROSAROSAROKAROCE%
कपालानीति व्यवहारद्वयसद्भावात् । ततः कार्योत्पादवकारणविनाशः सहेतुक एवाभ्युपेयः । ननु हेतोर्न तस्य किंचिद्भवति, न भवसेव केवलमिति चेत, तर्हि कारणात्कार्यस्य न किंचिद्भवति, भवत्येव केवलमिति समान विनाशवदुत्पादस्यापि निर्हेतुकत्वापत्तेः । तस्मादयं विनाशहेतुर्भावमभावीकरोतीति न पुनरकिंचित्करः । कार्योत्पत्तिहेतुर्वा यद्यभावं न भावीकुर्याद् भावं करोतीति कृतस्य करणायोगादकिंचित्करः स्यात् , सर्वथा भावं भावीकुर्वतो व्यापारवैफल्यात् । तदतत्करणादिविकल्पसंहतिरुभयत्र सदृशी । यथैव हि विनाशहेतोः कुटस्य तदभिन्नविनाशकरणे तत्करणादकिंचित्करत्वं, तद्भिन्नविनाशकरणे च तदुपलम्भप्रसक्तिः। तथोत्पादहेतो वादभिन्नोत्पादकरणेप्यकिंचित्करता, सतः करणायोगात् । सर्वथाप्यसतो भावादभिन्नस्योत्पादस्य करणेपि न किंचित् कृतं स्यात् खपुष्पसौरभवत् । सतोऽसतो वार्थान्तरस्य जन्मनः करणे तु न सदसद्वा कृतं स्यात् । एतेन प्रागसतोनान्तरस्यार्थान्तरस्य चोत्पादस्य हेतुना करणे तस्याकिंचित्करत्वमुपदर्शितं प्रतिपत्तव्यम् , प्रागसतोनन्यस्य सत्त्वायोगात्, ततोन्यस्य सत एव करणे वैफल्यात् । ततो यदि न विनाशार्थो हेतुसमागमस्तदोत्पादार्थोपि मा भूत् , सर्वथा विशेषाभावात् ॥ ५३ ॥
हेतुसमागमः समागतो हेतुः स्वेतरसकलकारणसंभृतमुपादानकारणमिति यावत् ॥ आश्रयिभ्यामुपादेयत्वेनाधेयाभ्याम् , अनन्यः प्रामोतीति शेषः, अयुक्तवदपृथकसिद्धयोयोरिव, ततः किं नानुजानीयादिति, ततः प्रतिपचभिप्रायवशात् , समनन्तरक्षणयोरव्यवहितपूर्वोत्तरक्षणयोः, प्रतिपत्त्यभिधानभेदेऽपीति अयमुत्पादोऽयं च विनाश इति प्रतिपत्तिभेदः, एतदाकार एव चाभिधानभेदः, "अर्थाभिधानप्रत्ययास्तुल्यनामधेया” इति वचनादिति सर्तव्यम् । संज्ञेत्यादिभाष्ये वतिरिवार्थः, तेनायमर्थः संज्ञाछन्दाद्योर्मतिस्मृत्याद्योरिव क्रमभाविनोरुदासीननाशोत्पादयोः सत्यपि भेदे प्रकृतयोः
ROSCORREARS
॥२७२॥
For Private And Personal Use Only