SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kailassagarsur Gyanmandir पृथग्भूतौ मिथः स्वाश्रयतो वा यौ समं सहेतुकेतरौ स्तां, प्रतिपत्त्यभिधानभेदेपि प्राह्यभाहकाकारवत् , स्वभावप्रतिबन्धात् । न हि तयोमिथः कार्यकारणभावः प्रतिबन्धः, समसमयत्वात् " नाशोत्पादौ समं यद्वन्नामोन्नामौ तुलान्तयोः” इति वचनात् । नापि स्वाश्रयेण सह कार्यकारणभावः, समनन्तरस्वलक्षणक्षणाभ्यां नाशोत्पादयोरर्थान्तरत्वप्रसङ्गात् । तयोस्तद्धर्मत्वाद्विशेषणविशेष्वभावः संबन्ध इति चेन्न, वैशेषिकमतसिद्धेः । कल्पनारोपितत्वात्तयोर्न तत्सिद्धिरिति चेत्तर्हि पूर्वक्षणविनाशोनन्तरक्षणस्वभावस्तदुत्पादश्चेति सिद्धः स्वभावप्रतिबन्धः । न चैवं प्रतिपत्त्यभिधानभेदो विरुध्यते, संविदि ग्राह्यग्राहकाकारयोरपि तद्विरोधप्रसङ्गात् । ततस्तद्वत्तयोरभेद एव । संज्ञाच्छन्दमतिस्मृत्यादिवत् सत्यपि भेदे समकालभाविनोः कथं सहकारी पुनरन्यतरस्यैव हेतुरहेतुर्वा स्यात् , कार्यरूपादेरिव कारणम् । संज्ञा हि प्रत्यभिज्ञा, छन्द इच्छा । तेनादिशब्दस्योभयत्र संबन्धान्निदर्शनद्वयं वादिद्वयापेक्षयोच्यते । संज्ञाछन्दादिवन्मतिस्मृत्यादिवञ्च क्रमभाविनोन शोत्पादयोः सत्यपि भेदे समकालभाविनोस्तयोर्घटकपालाश्रययोरिव सहकारी मुद्रादिः कथं कपालोत्पादस्यैव हेतुर्न पुनर्घटविनाशस्य, तस्यैव वाऽसौ हेतुर्न तु कपालोत्पादस्य स्यात् , कार्यरूपादिस्तबकस्यैकसामग्र्यधीनस्य कारणरूपादिस्तबकवत् । यतश्चैवं तस्मात्कार्यकारणयोरुत्पादविनाशौ न सहेतुकाहेतुको सहभावाद्रसादिवत् । न हि कारणरसादिकलापः 'कार्यस्य रसस्यैव हेतुर्न पुना रूपादेरिति प्रतीतिरस्ति, यतः साध्यशून्यो दृष्टान्तः स्यात् , नाप्यसहभावो रसादीनां, येन साधनविकलः । पुरुषधिषणाभ्यामनेकान्तइति चेन्न, सौगतानां पुरुषासिद्धः । स्याद्वादिना तु तस्यापि सहेतुकत्वात् पर्यायार्थतो धिषणावत्, द्रव्यार्थतोऽहेतुकत्वाच्च धिषणायाः पुरुषवन्न ताभ्यां हेतोय॑भिचारिता, कारणानन्तरं सहभावात् । इति प्रकरणसामर्थ्यात्सविशेषणस्य सहभावस्य हेतुत्वाद्वा न व्यभिचारः स्यात् । न चैवमसिद्धं साधनम् , मुद्गरादिव्यापारानन्तरं कार्योत्पादवत् कारणविनाशस्यापि प्रतीते:, विनष्टो घट उत्पन्नानि DANGA4%A4+CCACAUS+ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy