________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
समकालभाविनोर्घटकपालनाशोत्पादयोः रूपरसादिवत्कथञ्चिदभेदात्कथमुपादानसहकारी मुद्गरादिरन्यतरस्य कपालजातस्य हेतुरेवान्यतरस्य घटनाशस्याहेतुरेव च स्यात् , कारणरूपादिस्तोमाधीनकार्यरूपादिस्तोमवदेकसामग्र्यधीनत्वात्तयोः, नच रूपादौ रूपादेरेव हेतुत्वं रसादेस्तु सहभाविनोऽप्यन्यथासिद्धत्वादेवाहेतुत्वं तद्वदत्रापि कपालोत्पाद एव मुद्गरादेहेतुत्वं नतु घटनाशेऽन्यथा सिद्धत्वादित्यपि वक्तुं शक्यम् , रसादौ नियतोपस्थितिकरूपादिनाऽन्यथा सिद्धिसम्भवेऽप्यत्राविनिगमेन तदसम्भवात् ।। कारणानन्तरं सहभावादितीति इतिः प्रयोगाकारोपदर्शनार्थः। अनेन प्रयोगेणेत्यर्थः, सविशेषणस्य | कारणानन्तर्यविशेषणविशिष्टस्य, हेतुत्वाद्धेतुत्वेनोपन्यासात् , कार्योत्पत्तिहेतुर्वेति यथा कार्योत्पत्तिहेतुरभावं भावीकरोति न पुनरकिश्चित्करस्तथा विनाशहेतुर्भावमभावीकरोति न पुनरकिश्चित्कर इत्यर्थः । इदं तु ध्येयम् । भेदाभेदनियतश्विप्रत्ययार्थः स्याद्वाद एव युज्यते नान्यथेति ॥ ५३॥
किं च क्षणिकैकान्तवादिनां परमाणवः क्षणा उत्पद्यन्ते स्कन्धसन्ततयो वा ? प्रथमपक्षे स्थाप्यस्थापकविनाश्यविनाशकभाववद्धेPI तुफलभावविरोधात्कुतः सहेतुकोत्पत्तिरहेतुका वा ? स्थितिविनाशवत् । द्वितीयपक्षे तु ।
स्कन्धसन्ततयश्चैव संवृतित्वादसंस्कृताः। स्थित्युत्पत्तिव्ययास्तेषां न स्युः खरविषाणवत् ॥ ५४॥ ___साध्याभावसंभूष्णुताविरहाद्धेतोरन्यथानुपपत्तिरनिश्चितेति न मन्तव्यं, साध्याभावे तदभावप्रसिद्धः सौगतस्य । तथा हि । रूपवेदनाविज्ञानसंज्ञासंस्कारस्कन्धसंततयोऽसंस्कृताः संवृतित्वात् , यत्पुनः संस्कृतं तत् परमार्थसत् , यथा स्खलक्षणं, न तथा स्कन्धसंततयः, इति साध्यव्यावृत्तौ हेतोया॑वृत्तिनिश्चयात् । खरविषाणादौ सांवृतत्वस्यासंस्कृतत्वेन व्याप्तस्य प्रतिपत्तेः सिद्धान्यथानुपपत्तिः ।
For Private And Personal Use Only