________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥२४२॥
www.kobatirth.org
भूत, संबन्धनिबन्धनान्तराभावात् । कथंचित्तादात्म्यमेव हि तयोः संबन्धनिबन्धनम्, न ततोन्यत्संभवति । समवायवृत्ति संभवतीति चेत्, न, समवायस्य कथंचिदविष्वग्भावादपरस्य प्रतिक्षेपात् । पृथक्त्वमन्यद्वा पृथग्भूतमनंशमनेकस्थेषु निष्पर्यीयं वर्तते इति दुरवगाहम् । न ह्यनेकदेशस्थेषु हिमवद्विन्ध्यादिषु सकृदेकः परमाणुर्वर्तते इति संभवति । गगनाद्यनंशमपि वर्तते इति चेत्, न, तस्यानन्तप्रदेशादितयानंशत्वासिद्धेरनाश्रयतया कचिद्वृत्त्यभावाच्च । सत्तैका युगपदनेकत्र वर्तते इत्यप्यसिद्धम्, तदनन्तपर्यायत्वा साधनात् स्व पर्यायेभ्योत्यन्तभेदासिद्धेश्व समवायवृत्त्यनुपपत्तेः । द्रव्यत्वादिसामान्यमपि नैकमनंशमनेकस्वव्यक्तिवृत्ति सकृत्प्रसिद्धम्, तस्यापि स्वाश्रयात्मकतया कथंचित्सांशत्वानेकत्वप्रतीतेः संयोगविभागपरत्वापरत्वान्यपि नानेकवृत्तीनि युगपदुपपद्यन्ते प्रतियोग्यादिसंयोगादि परिणामप्रतीतेः सादृश्योपचारादेकत्वव्यवहारात् । द्वित्वादिरनेकद्रव्यवृत्तिर्युगपदित्यप्यप्रातीतिकम्, प्रतिव्यक्ति सकलसंख्यापरिणामसिद्धेः कचिदेकत्र तदसिद्धौ परापेक्षयापि तद्विशेषप्रतीत्ययोगात् खरविषाणवत् । ततो न पृथक्त्वमनेकत्र युगपद्वर्तते गुणत्वाद्रूपादिवत् । न संयोगादिभिरनेकान्तः, तेषामप्यनेकद्रव्यवृत्तीनां सकृदनंशानामसिद्धेः । तदनेन पृथक्त्वैकान्तपक्षेपि पृथक्त्ववतोः पृथक्त्वात्पृथक्त्वे तौ तद्वन्तावपृथगेव स्याताम् । तथा च न पृथक्त्वं नाम गुणः स्यात्, एकत्र तद्वति तदनभ्युपगमात् । अनेकस्थो ह्यसौ गुण इति कारिकाव्याख्यानं स्थितपक्षदूषणपरं प्रकाशितं प्रतिपत्तव्यम् ॥ २८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
परिच्छेदः द्वितीयः ॥
पृथक्त्वमन्यद्वेति अन्यद्गुणान्तरं १ अनेकस्थेष्वनेकदेशस्थेषु नानापदार्थेषु । न च पृथक्त्वं रूपादिवत् प्रत्याश्रयं भिन्नमेवेष्यत इत्ययमनभ्युपगतोपालम्भः परं प्रति ग्रन्थकृत इति वाच्यम् । द्विवद्विपृथक्त्वादीनां परेण व्यासज्यवृत्तित्वस्योपगमात्, एकपृथक्त्वस्य स्वाश्रये द्विपृथक्त्वादेरन्यत्र चैकपृथक्त्वस्यारम्भकतयोभयत्रारम्भकत्वस्वीकारात् 'प्रतियोग्या- ॥२४२॥