________________
Shri Mahavir lain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
+
2064
+
+
शून्यं ब्रम तचमिति चेत्, न, तस्य खपुष्पप्रायत्वात् , तद्ग्राहकत्वेनाभिमतस्य ज्ञानस्य सुषुप्तज्ञानतुल्यस्याप्रमाणत्वात् , सुषुप्तज्ञानमप्युत्थानानन्तरसत्यविकल्पदर्शनेन प्रमाणमिति चेत् , तहिं स्वविषयविकल्पाजननात्ततोऽपि त्वदीयं ब्रह्मज्ञानं हीनतरमस्तु, तदभावे तस्याभेदविषयत्वं भेदविषयत्वं वेत्यत्र संशयानिवृत्तेः, वेदान्तवासनामात्रेण तत्प्रामाण्य पिटकत्रयादिवासनया क्षणिकादिज्ञानमपि प्रमाणं स्यादिति न किञ्चिदेतत् , “ यत्खण्डनं मण्डनहेतुरस्मन्मते रते तद्दशनक्षताभम् । वेदान्तवादेऽथ च शून्यवादे दंशः श्वदन्तस्य विडम्बनं तत् ॥१॥ रतोत्सवः स्यात्परसंकथानां स्याद्वादयून: किल वल्गनेन । यत्ताः सहन्ते रतियुद्धमेतन मल्लयुद्धं परतीर्थिकानाम् ॥२॥” ब्रह्माद्वैतदूषणं शद्धाद्वैतेऽप्यतिदिशति-तदेतेनेत्यादि' ॥ २७ ॥ ___ इष्टमद्वैतैकान्तापवारणम् , पृथक्त्वैकान्ताङ्गीकरणादिति मावदीधरत् । यस्मात्,पृथक्त्वैकान्तपक्षेपि पृथक्त्वादपृथक् तु तौ। पृथक्त्वे न पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः॥२८॥
पृथगेव द्रव्यादिपदार्थाः प्रमाणादिपदार्थाश्च, पृथक्प्रत्ययविषयत्वात् सह्यविन्ध्यवदित्येकान्तः पृथक्त्वैकान्तः, सजातीयविजातीयव्यावृत्ता निरन्वयविनश्वरा बहिरन्तश्च परमाणवः इत्यमिनिवेशश्च । तत्र येषां पृथक्त्वगुणयोगात् पृथक् पदार्था इत्याग्रहस्ते एवं तावत्प्रष्टव्याः-किं पृथग्भूतपदार्थेभ्यः पृथक्त्वं गुणः पृथग्भूतोऽपृथग्भूतो वा ?, न तावदुत्तरः पक्षो गुणगुणिनोआंदोपगमात् । नापि प्रथमः पृथग्भूतपदार्थेभ्यः पृथक्त्वस्य पृथग्भावे तेषामपृथक्त्वप्रसङ्गात् । पृथक्त्वस्य तद्गुणत्वात् पृथगिति प्रत्ययस्य तदालम्बनत्वान्न तेषामपृथक्त्वप्रसङ्ग इति चेत्, न, तस्य कथंचित्तादात्म्यापत्तेः पृथक्त्वैकान्तविरोधात् । तद्वणगुणिनोरतादात्म्ये घटपटवद्यपदेशोपि मा
ॐ4545
+
+
+
+
+
For Private And Personal Use Only