SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir PARCHASCACASEX दीति' आदिनानुयोगिपरिग्रहः। तथा च घटप्रतियोगिकत्वपटानुयोगिकत्वाभ्यां घटपटसंयोगयोभिन्नत्वम् , न त्वेकत्वम् , घटे पटाव्यवधानात्मनः पटे घटाव्यवधानात्मनश्च संयोगस्यैकत्वायोगादित्युक्तं भवति, सादृश्योपचारादिति, तन्निबन्धनीभूता वृत्तिरेव च पर्याप्तिः, अन्यथा प्रत्येकावृत्तेः समुदायवृत्तित्वायोगात् , कथं चान्यतरकर्मजत्ववदन्यतरकर्माभावजत्वमन्यतरकर्मजे उभयकर्मजे च तदतत्कर्मजत्वेन भेदकम् , अन्यथोभयकर्मजन्यतावच्छेदिकाया इव त्रयकर्मादिजन्यतावच्छेदिकाया अपि जातेरभ्युपगमप्रसङ्गात् , नो चेत् , कर्मत्रयस्थले उभयकर्मजसंयोगद्वयापत्तेः, एवमग्रेऽपि नानासंयोगस्वीकारे आदित एव किं न तत्स्वीकारः। यदि च समवायिकारणभेदेऽपि संयोगाद्यैक्यं स्वीक्रियेत, तदा घटादौ यावदवयवरूपमप्येकं स्यादेकत्वप्रतीत्यविशेषात् । यावदाश्रयबुद्धिसापेक्षत्वासापेक्षत्वाभ्यां विशेष इति चेत् , न, रूपादिप्रतीतेरप्याश्रये पर्याप्तत्वापर्याप्तत्वावगाहने न द्विविधरूपत्वादित्याद्यधिकं वादमालायां निरूपितमस्माभिः, । 'द्वित्त्वादिरिति' एकत्वद्वयादिनैव द्वित्त्वादिबुद्धिव्यवहारोपपत्तेरिति भावः। तथा च न पृथक्त्वं नाम गुणः स्यादिति । नन्वत्रेष्टापत्तिः, नैयायिकमूर्दाभिषिक्तेन शिरोमणि भट्टाचार्येण पृथक्त्वस्यान्योन्याभावरूपस्यैव स्वीकारात् , तथा च तद्ग्रन्थः । पृथक्त्वमपि न गुणान्तरम् , अन्योन्याभावादेव तद्व्यवहारोपपत्तेः, पृथक्त्वप्रतीतिस्तु न सावधित्वालम्बना, मानाभावात्, घटात्पटः पृथगितरोऽन्यो भिन्नोऽर्थान्तरमित्यादौ तत्तच्छब्दविशेष्ययोगे पञ्चभ्यानुशासनिकीति अन्यारादित्यादिसूत्रेऽन्यपदं विशिष्य पृथगादिपरं न त्वन्योन्याभावविशिष्टबोधकपदसामान्यपरमिति पृथक्त्वस्यान्योन्याभावरूपत्वेऽपि घटात्पटः पृथगित्यस्यैव घटान्न पट इत्यस्य नापत्तिरित्येतदर्थ इति चेत् , सत्यम् , पृथक्त्वस्यान्योन्याभावरूपत्वेऽप्यभेदसंवलितत्वेन तदेकान्तायोग इत्यत्र ग्रन्थकृतस्तात्पर्यात् , वस्तुतो मूले वृक्षः कपिसंयोगी For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy