________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्त्री विवरणम् ॥
परिच्छेदः प्रथमः॥
॥२२९॥
( ५ ) ॥ स्यादनेकावक्तव्यं, तस्यानेकस्यापि वक्तुमशक्तेः (६)॥ तत एव स्यादुभयावक्तव्यम् (७) ॥ इति सप्तभङ्गीप्रक्रियायोजनमतिदेशवचनसामादवसीयते ॥ तत एव चैकत्वमेकधर्मिणि स्वप्रतिषेध्ये नानेकत्वेनाविनाभावि, विशेषणत्वाद्वैधाविनाभाविसाधHवद्धतौ । अनेकत्वं स्वप्रतिषेध्येनैकत्वेनाविनाभावि, विशेषणत्वात् साधाविनाभाविवैधर्म्यवद्धतौ । एवं तदुभयादयोपि स्वप्रतिषेध्येनाविनाभाविनो विशेषणत्वाद्विशेष्यत्वाच्छब्दगोचरत्वाद्वस्तुत्वाद्वा स्वसाध्येतरापेक्षया हेत्वहेत्वात्मकसाधनधर्मवदित्यपि नययोजनमविरुद्धमववोद्धव्यम् । विशेषणत्वादेः साधनधर्मस्यापि स्वविशेष्यापेक्षया विशेषणस्य स्वप्रतिषेध्येनाविनाभावित्वसिद्धेनं तेन विशेषणत्वादिहेतोय॑भिचारः । नापि विशेष्यत्वस्य, स्वविशेषणापेक्षया विशेष्यस्यापि स्वप्रतिषेध्येनाविनाभावित्वात् । शब्दगोचरत्वस्य च शब्दान्तरागोचरस्य स्वप्रतिषेध्येनाविनामावित्वात् , वस्तुत्वधर्मस्य च वस्त्वंशत्वेन वस्तुत्वरूपस्य तत एव व्यभिचारित्वाशद्वापि न कर्तव्या, अनेकान्तवादिनां तथाप्रतीतेविरोधाभावात् । एवमेकत्वानेकत्वाभ्यामनवस्थितं सप्तभङ्गथामारूढं जीवादिवस्तु, कार्यकारित्वान्यथानुपपत्तेः । सर्वथैकान्ते क्रमाक्रमाभ्यामर्थक्रियाविरोधादित्याद्यपि योजनीयम् ॥ २३ ॥ प्रज्ञाधीशप्रपूज्योज्वलगुणनिकरोद्भूतसत्कीर्तिसम्प-द्विद्यानन्दोदयायाऽनवरतमखिलक्लेशनिर्णाशनाय ।
स्ताद्गौः सामन्तभद्री दिनकररुचिजित्सप्तभङ्गीविधीद्धा, भावाकान्तचेतस्तिमिरनिरसनी वोऽकलङ्कप्रकाशा ॥१॥
इत्याप्तमीमांसालङ्कृतौ प्रथमः परिच्छेदः ॥
॥२२९॥
For Private And Personal Use Only