________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandi
परम इति (२२८-२-१०) परैर्जानिभिर्मीयत इति परमः सर्वशुद्ध इति यावत् । तदपेक्षयेति' (१०) तथा च व्यवहारैकत्वस्य प्रत्यभिज्ञामात्रप्रमाणकत्वेऽपि तदभावेऽपि सन्नहबुद्धिकृतस्य सर्वद्रव्यगतैकत्वस्य न दुष्टत्वमित्युक्तं भवति । अत्र च व्यवहाररूपापेक्षाधीकृतमेकत्वं तद्व्यक्तित्वावच्छिन्नम् , सहकृतं च तद्वृत्तिजात्यवच्छिन्नम् , प्रतियोग्यनुयोगिवाचकपदसत्त्वेऽन्यथा च शुद्धं सामान्यधर्मिणि प्रतीयते, सोऽयं तज्जातीयोऽयं सो घट एकः सर्वमेकमित्यादिप्रयोगादिति विवेकः । अथ सङ्ग्रहबुद्धिकृतमेकत्वं कथं सङ्ग्रहबुद्धेविषयः स्यादिति चेत् , अनादित्वेनायं दोषः परिहरणीयः । पूर्वपूर्वसङ्ग्रहबुद्धिकृतस्यैकत्वस्योत्तरोत्तरसतहबुद्ध्या विषयीकरणसम्भवात् द्वित्वादिवदऽस्यैकत्वस्यापेक्षाबुद्धिव्यङ्गयत्वपक्षे तु नात्राशङ्कापदप्रसरोऽपि, यथा चैकत्वद्वित्वादेः कथश्चिदपेक्षाबुद्धेर्व्यङ्गथत्वं जन्यत्वं च तथा व्यवस्थापितमस्माभिर्नयामृततरङ्गिण्यां महता प्रबन्धेनेति तत एव तदवगन्तव्यम् । 'अपरे त्विति' (११) न परेऽपरे सङ्ग्रहनयमवलम्ब्यातिपरिणामेन प्रवृत्ता वेदान्तिन इत्यर्थः । तन्मत एव सकलभेदप्रपञ्चस्य बाधावधीभूतसद्ब्रह्मोपादानकत्वादिति ध्येयम् । स्याद्वादावष्टम्भे पुनरेतन्मतं न क्षोदक्षमम् , जीवादिभेदानां त्रैलक्षण्यान्वितत्वेन कथञ्चित्कार्यत्वे तदुपादाने सतीष्यमाणे तदन्तर्भावेनापि कार्यत्वस्य सदन्तरोपादानत्वस्य च कल्पनायामनवस्थाप्रसङ्गादूर्ध्वतासामान्यस्यैकस्य खण्डशो भावेऽपि व्याप्त्या तदयोगात्, अन्यथा तस्य जीवाजीवोभयात्मकत्वेन तृतीयराशिप्रसङ्गात् , यदि चेदमेकत्वं न द्रव्यत्वापादकं किन्तु सर्वाधारत्वापादकमिति नोक्तदोष इति विभाव्यते, तदा प्राचीनमतस्यैवायं पुनः प्रसवः, बुद्धिप्रत्यासच्या नगरादिवदेकत्वेन विवक्षितस्य सद्रव्यस्य जीवादिमेदाधिष्ठानत्वोपपादनात् , एवं सत्यनपेक्षितद्रव्यार्थिकनयाभिमतं वर्तनाहेतुः कालाख्यमेव सद्रव्यमुपतिष्ठते, युक्तं चैतत् , कालस्वरूपेश्वरवादिनये
For Private And Personal Use Only