SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | कथंचिद्विशिष्टप्रतिभासात् । यद्यपि ते विशेषाः परस्परव्यावृत्तपरिणामाः कालादिभेदेपि सदूपाविशिष्टाश्वित्रज्ञाननीलादिनि सवत् । यथा हि चित्रप्रतिभासाप्येकैव बुद्धिः, बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं हि बाह्यचित्रमशक्यविवेचनाश्च बुद्धेर्नीलाद्याकारा इति चित्रज्ञानमशक्यविवेचनं नीलादिनिर्भासभेदेप्येकमिष्यते, तथा जीवादिविशेषभेदेप्येकं सद्रव्यम् , कालभेदेपि सद्रूपादशक्यविवेचनत्वात् , देशभेदेपि वा ततस्तेषां विवेचयितुमशक्तेराकारभेदवत्, ततस्तेषां कदाचित्कचित्कथंचिदपि विवेचने स्वरूपाभावप्रसङ्गात् । सामान्यविशेषसमवायवत्प्रागभावादिवद्वा सद्रूपाद्विवेचनेपि जीवादीनां नाभाव इति चेत् , न, तेषामपि सद्विवर्तत्वात् सद्रूपविवेचनासिद्धेः, अन्यथा प्रमेयत्वायोगादवस्तुत्वप्रसक्तेः, सर्वथा सत्त्वाद्भित्रस्यासत्त्वनिर्णयात् । ततो जीवादिविशेषाः कालादिभेदेपि स्यादेकं द्रव्यम् , सद्रूपाविशिष्टत्वान्नीलादिनि सभेदेपि ज्ञानरूपाविशिष्टत्वादेकचित्रज्ञानवत् ॥ इति प्रथमो भङ्गः (१)॥ तथा जीवादिविशेषाः स्यादनेकत्वमास्कन्दन्ति, भेदेन दर्शनात् संख्यासंख्यावदर्थवत् । न हि संख्यासंख्यावतोभैदेनादृष्टौ विशेष(षे)णविशे(शि)प्यविकल्पः कुण्डलिवत् क्षीरोदकवदतद्वेदिनि, यतः सौगतस्तयोरभेदं मन्येत । न च भेदैकान्ते तद्वत्ताऽस्ति, व्यपदेशनिमित्ताभावात् । संख्यावानर्थ इति व्यपदेशनिमित्तं समवाय इति चेत्, न, तस्य कथंचित्तादात्म्यरूपत्वे भेदैकान्तासिद्धवैशेषिकमतविरोधात् । पदार्थान्तरत्वे संख्यासंख्यावतोः समवाय इति व्यपदेशनिमित्ताभावः । विशेषणविशेष्यभावो व्यपदेशनिमित्तमिति चेत् , न, तस्यापि ततो भेदे व्यपदेशनिमित्तान्तरापेक्षणात्पर्यनुयोगानिवृत्तेरनवस्थाप्रसङ्गाच्च । तस्मादयं कथंचिदेव संख्यासंख्यावतोः स्वभावभेदं पश्यति, तद्विशिष्टविकल्पनात्वचिनिर्णयेप्यन्यत्र संशयाद्वर्णरसादिवदिति । तदेवं सर्व सिद्धं स्यादनेकम् ।। इति द्वितीयो भङ्गः (२)॥ क्रमाप्तिद्वयात्स्यादुभयम् (३) ॥ सहावक्तव्यं, वक्तुमशक्तेः (४) ॥ स्यादेकावक्तव्यं, स्वलक्षणस्यैकस्य वक्तुमशक्यत्वात् For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy