________________
Shri Mahavir Jain Aradhana Kendra
www.kcbabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SSSSSSSSSSSSSXX
नमात्रोपगमेऽपि (२२३-१-११) योगाचाराभिमतबाह्यार्थनिरपेक्षसाकारज्ञानवादेऽपि, तद्विकल्पोत्पत्ताविति (१२), अनन्तरं स्वीक्रियमाणायामिति शेषः। कुतस्तदुव्यवस्था (१२) सन्तानान्तरस्वसन्तानपूर्वापरक्षणव्यवस्था, तदनुरोधेन तद्वास्तवत्वाङ्गीकारे चोत्पादादिविशिष्टानुभवव्यवस्थानुरोधेनोत्पादादेरपि वास्तवत्वं बलादेव सिद्ध्यति, संवेदनाद्वैतोपगमेऽपि (१२) माध्यमिकदृष्ट्या सन्तानान्तरस्वसन्तानाद्यन्तक्षणरहितमध्यमक्षणमात्रविश्रान्तज्ञानस्वीकारेऽपि, स्वतो गताविति,
(१३) अभ्युपगम्यमानायामिति गम्यम् , निरन्वयमविनाश इति (२२३-२-१) सान्वयविनाशस्वीकार इत्यर्थः । द्र कथमिदानी (३) मिति न चानुत्पन्नस्य स्थितिविपत्ती इति पूर्वमुक्तत्वादिति भावः । अन्यथानवस्थाना (७) दिति
सुनयाप्तिस्यैकस्यैव भङ्गस्य सप्तभङ्गीत्वप्राप्तौ मर्यादालक्षणस्यावस्थानस्याभावादित्यर्थः, यद्वा विधावपि विध्यन्तरादिविकल्पप्राप्तावनवस्थानं बोध्यम् । न चासो सप्तभङ्गीविधावसमारूढ (९) इति । यद्यपि सप्तभङ्गीविधिसमारूढत्वं सुनयार्पितत्वं वा नार्थक्रियाकारितावच्छेदकम् , तद्रूपाज्ञानेऽपि पुरोवर्तिनीष्टतावच्छेदकरूपवैशिष्वज्ञानादेव रजतादौ प्रवृत्तिदर्शनात् , नापि सप्तभङ्गीविधिसमारूढत्वनियतं रजतारजतोभयरूपत्वं तथा, " सर्वस्योभयरूपत्वादिष्टानिष्टाव्यवस्थितौ ॥ अप्रवृत्तिनिवृत्तीदं जातं सर्वत्र ही जगत् ॥ १॥ इति मण्डनमिश्रकृतपूत्कारप्रत्युत्तरादानेन तस्यारण्यरुदितत्वप्रसङ्गात् । स्वरूपपररूपाभ्यामसङ्करोक्त्या तत्पूत्कारनिवारणे च नियतैकरूपस्यैवार्थक्रियाकारितावच्छेदकत्वव्यवस्थितेः, तथापि सर्वस्य ज्ञानस्य प्रवर्तकत्वेऽगृहीताप्रामाण्यकत्वस्य तत्रत्वात् प्रवर्तकज्ञानाप्रामाण्यविघटनाय सप्तभङ्गीविधिसमारूढत्वमुपयुज्यत इति युक्तं पश्यामः। यद्यपि प्रामाण्येऽपि लोकसिद्धे तद्वति तत्प्रकारकत्वमात्रं तन्त्रम्, न तूक्तं सप्तमङ्गीविधिसमारूढत्वम् , तथापि लोको
ॐ4%A4%AA%
For Private And Personal Use Only