________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
**
परिच्छेदः प्रथमः॥
*
अष्टसहस्री विवरणम् ॥ ॥२२४ ॥
*
| त्यादिना ( २२२-२-१४ ), सिद्धान्तयति उच्यत इत्यादिना, सौगतः शङ्कते-यदि पुनरित्यादिना ( २२३-१-६) स्यादित्यन्तेन, स्याद्वाद्युत्तरयति तन्निरन्वये (६) त्यादिना, तस्य प्रागविद्यमानोत्पन्नस्य निरन्वयनाशाभ्युपगमे आदावन्ते चेत्यादिन्यायात्तस्यैकान्ततोऽभावः स्यात् , कथञ्चिद्विनाशरूपेतरपक्षाभ्युपगमे च कथश्चिदुत्पाद एवार्थतः सिझ्यतीत्यसदेकान्ताभावप्रसङ्गः स्फुट एवेति भावः । भाष्ये तस्याः (७) सामग्र्याः, निरन्वयविनाशे (७) ऽभ्युपगम्यमाने, निष्कारणस्य सतः, (७) तथैवासामग्रीस्थलविधयैव, उत्पत्तिर्न स्यात् (७), न च प्राक्काले कारणाभाव एव कार्याभावप्रयोजको, लाघवव्यवहाराभ्यां यदा कारणाभावस्तदा कार्याभाव इत्येव “क्रियमाणं कृतमिति" नये व्याप्त्यभ्युपगमात् , कारणमिह परिणामि ग्राह्य, तेन न दण्डादौ व्यभिचारः । न च क्षणैकशेष " तेणेह कञ्जमाण" मित्यादिमहाभाष्यपर्यालोचनया कार्यस्य किश्चित्कालस्थायिन एव ग्रहणाद्वयवहारानुगृहीतर्जुसूत्रस्यायं विषय इति दिग् । न हि निराधारेति (७) तथा च यथा स्थितेः पूर्वक्षणव्याप्यस्थितिकत्वं तथोत्पत्तेरपि स्वपूर्वक्षणव्याप्योत्पत्तिकत्वमिति व्याप्ते सदेकान्त इति भावः । न च पूर्वापरीभृतावयवा साध्यमानस्वरूपा क्रियाऽभिधीयते, सा चोत्पत्त्यादिर्न सम्भवति, क्षणिकतादृशक्रियास्वरूपस्य दुरधिगमत्वादित्यपि शङ्कनीयम् । उत्पत्तेर्विपत्तेर्वा स्थितिमद्वस्तुधर्मत्वेनैव क्रियात्वस्य प्रत्यक्षसिद्धत्वात् , “ बुद्धिप्रकल्पितामेदः क्रमिकव्यापारसमूहः क्रिया" इति शाब्दिकाभिधानस्यापि द्रव्यार्थतयाऽभेदसत्त्व एव तत्प्रकल्पनासम्भवसाक्षिण एकान्तक्षणिकपक्षशिरस्येववज्रदण्डप्रहारदायित्वादित्यभिप्रायवानाह-नैतन्मन्तव्यमित्यादि(८), नैतन्मन्तव्यमित्यस्य ततोऽसिद्धो हेतुरित्यनन्तरमन्वय इति नासङ्गतिः॥ अन्यथा (१०) प्रादुर्भावादेश्चक्षुरादिबुद्धावप्रतिभासमानत्वे, निरालम्बनविज्ञा
*
*
*
HIN२२४॥
For Private And Personal Use Only