SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ C ॥ २२५॥ त्तरप्रामाण्ये सप्तभङ्गयोधकतापर्याप्त्यधिकरणत्वस्य तन्त्रत्वात् सर्वत्र तदाश्रयणं युक्तमिति तत्र तत्र व्यवस्थापितमस्माभि-18 परिच्छेदः रिति सर्वमवदातम् । 'नानोपाधीति' (२२४-१-६) नानोपाधीनां सवादिधर्माणामुपकाराङ्गभूता या शक्तिस्तदभिन्न प्रथमः॥ आत्मा स्वरूपं यस्य तादृशस्य धर्मिणो ग्रहे, सर्वात्मना (६) धर्मिणा, उपकार्यस्य (६) धर्मकलापस्य, को भेदोऽनिश्चितः स्यात् (६) न कश्चिदित्यर्थः । एकस्य सवादिधर्मस्योपकारके ग्राह्ये तस्मिन् दृष्टे सर्वे उपकारा दृष्टाः । ततोऽपरे उपकारा न सन्ति, ये तस्मिन् दृष्टे न दृष्टा इति, तद्ग्रहे एकोपकारकग्रहे, बलात् सर्वोपकार्यग्रहः स्यात् । 'धर्मोपकारेत्यादि (१०)' धर्माणां या उपकारशक्तयस्तासां भेदेऽङ्गीक्रियमाणे, तास्तस्य धर्मिणः, किं स्युन स्युरित्यर्थः । यदि ततो (११) धर्मिणः सकाशात् , तासां धर्मोपकारशक्तीनाम् , उपकारो न, तथोपकारे च स्वीक्रियमाणे, उपकारशक्तिपरम्पराकल्पनेनानवस्थितिः (११) अनवस्था स्यादित्यर्थः ॥ २१ ॥ धर्म धर्मेन्य एवार्थो धर्मिणोनन्तधर्मणः । अङ्गित्वेन्यतमान्तस्य शेषान्तानां तदङ्गता ॥ २२॥ धर्मी तावदनन्तधर्मा जीवादिः, प्रमेयत्वान्यथानुपपत्तेः । ननु च धर्मेण व्यभिचारः, तस्यानन्तधर्मत्वाभावेपि प्रमेयत्वसिद्धेः । तस्याप्यनन्तधर्मत्वे धर्मित्वप्रसङ्गान्न धर्मो नाम । तदभावे न धर्मात्युभयापायः। प्रमेयत्वस्य च साधनधर्मस्यानन्तधर्मशून्यत्वे तेनैवानेकान्तः । तस्यानन्तधर्मत्वे धर्मित्वेन पक्षान्तःपातित्वान्न हेतुत्वम् । इत्युपालम्भो न श्रेयान् , धर्मस्यैव सर्वथा कस्यचिदसंभवात्तेन व्यभिचाराभावात् साधनस्य । न हि स्वधर्म्यपेक्षया यो धर्मः सत्त्वादिः स एव स्वधर्मान्तरापेक्षो धर्मी न स्याद्यतोनन्तधर्मा न भवेत् । न चैवमनवस्थानम् , अनाद्यनन्तत्वाद् धर्मधर्मिस्वभावभेदव्यवहारस्य वलयवदभव्यसंसारवद्वा । न च धर्मिणो जीवादेरपोध्रियमाणो धर्मः प्रमेयः, तस्य नय- 2॥२२५॥ ARRORSCOR ARC For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy