________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
552
धर्मानुपकुरुतेऽनेकमा वा ? यद्येकया स्वात्मनोनन्यया धर्मी धर्मानुपकुरुते, तदैकधर्मद्वारेण नानाधर्मोपकारनिमित्तभूतशक्त्यात्मनो धर्मिणः प्रतिपत्तौ तदुपकार्यस्य सकलधर्मकलापस्य प्रतिपत्तेः सकलग्रहः स्यात् , उपकार्याप्रतीतौ तदुपकारकप्रतीत्ययोगात्। एतेनानेकया स्वात्मनोनन्यया शक्त्या धर्मी धर्मानुपकरोतीति पक्षान्तरमपि प्रतिक्षिप्तम् । धर्मी धर्मेरुपक्रियते इत्यस्मिन्नपि पक्षे किमेकोपकार्यशक्त्यात्माऽनेकोपकार्यशक्त्यात्मा वेति पक्षद्वितयमप्यनेनैव निरस्तम् , सकलधर्मकलापस्योपकारकस्याप्रतिपत्तौ तदुपकार्यशक्त्यात्मनो धर्मिणः प्रतिपत्त्यघटनात् , सकलनिश्चयस्याविशेषात् । तदुक्तं " नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे । सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः॥१॥ एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे । दृष्टे यस्मिन्नदृष्टास्ते तगृहे सकलग्रहः ॥२॥” इति । यदि पुनर्धर्माणामुपकारिकाः शक्तय उपकार्याश्च धर्मिणो भिन्ना एव तदा ताभिस्तस्योपकारः कश्चित्तेन वा तासां क्रियते न वेति पक्षद्वयम् । तत्र न तावदुत्तरः पक्षः, तद्व्यपदेशविरोधात् । प्रथमपक्षे तु शक्तिभिः शक्तिमत उपकारेनर्थान्तरभूते स एव कृतः स्यात् । तथा च न शक्तिमानसौ, तत्कार्यत्वात् । ततो
र्थान्तरभूतेऽनवस्थाप्रसङ्गः, तद्व्यपदेशसियर्थमुपकारान्तरपरिकल्पनात् । शक्तिमता शक्तीनामुपकारे शक्त्यन्तराणां कल्पनेऽनवस्थैव । तदकल्पने प्राच्यशक्तीनामप्यव्यवस्थितिः । इति न शक्तिशक्तिमद्व्यवहारः सिध्येत् । तदप्युक्तं " धर्मोपकारशक्तीनां भेदे तास्तस्य किं यदि ? । नोपकारस्ततस्तासां तथा स्यादनवस्थितिः ॥३॥” इति ॥ २१ ॥ तदपि सर्वमपाकुर्वन्तः सूरयः प्राहुः ॥ ___अव्यवस्थितानेकान्तात्मकं ( २२२-२-७) परोक्तैकान्तव्यवस्थारहितम् , अव्यवस्थितपदस्यकान्तव्यवस्थाराहित्यार्थत्वे तस्य कथञ्चिदवस्थितत्वाविनाभावित्वादलवणा यवागूरित्यत्रेवेषदर्थेन ना कथञ्चिदवस्थितार्थपरतयापि व्याख्यानं घटत एवेत्याह तत एवम् (१२) इत्यादिना, एकान्तव्यवस्थायां कुतो नार्थक्रियाकारित्वमिति शङ्कते-सत्त्वाद्यन्यतमे
%AAAACANCARNA
For Private And Personal Use Only