________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बष्टसहस्री विवरणम् ॥
॥२२३॥
CAMERA
राधारत्वप्रतिषेधो न सिध्येत् । ततो न प्रागसतोप्युत्पत्तिः संभवति । निरन्वयमविनाशे प्रागसत उत्पत्तिरित्ययमपि पक्षो न क्षेमकरः, परिच्छेदः स्याद्वादाश्रयणप्रसङ्गात्, असत्कार्यवादविरोधात् । ततः सूक्तं ' यदेकान्तेन सदसद्वा तन्नोत्पत्तुमर्हति, व्योमवन्ध्यासुतवत्' इति । न
प्रथमः॥ ह्येकान्तेन सद्वयोमोत्पद्यते, नाप्येकान्तेनासन वन्ध्यासुत इति न साध्यसाधनविकलमुदाहरणम् । कथमिदानीमनुत्पन्नस्य गगनादेः स्थितिरिति चेत्, न, अनभ्युपगमात् सर्वथा गगनाद्यनुत्पादस्य । केवलमिह व्योम्नो द्रव्यनयापेक्षया परप्रसिद्धया चोदाहरणं प्रतिपादितम् , ततो न पूर्वापरविरोधः, पूर्वं सर्वथानुत्पत्तिमतः स्थितिप्रतिषेधसाधनात्, द्रव्यतोनुत्पद्यमानस्यैव स्थितिघटनात् । ततो यदर्थक्रियाकारि तद्विधिप्रतिषेधकल्पनोपकल्पितसप्तभङ्गीविधौ समारूढं विध्येकान्तादौ वानवस्थितं, सदायेकान्ते सर्वथार्थक्रियाविरोधादिति सूरिमतम् । नन्वेवं सुनयार्पितस्य विध्यंशस्य निषेधांशस्य चार्थक्रियाकारित्वे तेन व्यभिचारी हेतुः, तस्य सप्तभङ्गीविधावसमारूढत्वादन्यथानवस्थानात्, तस्यानर्थक्रियाकारित्वे सुनयस्यावस्तुविषयत्वप्रसक्तेः, वस्तुनोर्थक्रियाकारित्वादिति कश्चित् , तदयुक्तम् , सुनयार्पितस्यापि विधेरनिराकृतप्रतिषेधस्यार्थक्रियाकारित्वादन्यथा दुर्णयार्पितत्वापत्तेः । न चासौ सप्तभङ्गीविधावसमारूढः, भङ्गान्तराप्रतिक्षेपात् । तथा च नानवस्था नाम, विधावपि विध्यन्तरादिविकल्पनाऽभावात् । केवलं विधिभङ्गे नास्तित्वादिभङ्गान्तरगुणीभावाद्विधिप्राधान्यम् , प्रतिषेधभङ्गे चास्तित्वादिभङ्गान्तरगुणीभावात्प्रतिषेधप्रधानतेति प्रमाणार्पितप्रधानरूपाशेषभङ्गात्मकवस्तुवाक्यानयवाक्यस्य विशेषः प्ररूपितप्राय एव । यदप्याह 'जीवादिवस्तुनि सत्त्वद्वारेण प्रथमभङ्गात्प्रतिपन्ने द्वितीयादिभङ्गानामानर्थक्यम् , असत्त्वादिधर्माणामपि तदात्मनां तत एव प्रतिपत्तेः, अन्यथा तेषां वस्तुनोन्यत्वापत्तेः, विरुद्धधर्माध्यासात्पटपिशाचवत् । तथा च तस्येतिव्यपदेशाभावः, संवन्धाभावात् । सत्त्वादिधर्माणां धर्मिणा सहोपकार्योपकारकभावे धर्मिणोपकारो धर्माणां धर्मेर्वा धर्मिणः स्यात् ?, प्रथमपक्षे किमेकया शत्या धर्मी On २२३॥
For Private And Personal Use Only