SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahalin Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir पकारिणां तव द्विषतां (९) परतीथिंकानाम् , अपथ्यम् (९) अरुचिविषयत्वादिति स्तुतिवृत्तार्थः । ननु गुणप्रधानार्थमेव सर्व वाक्यमित्यभ्युपगमे प्रधानभावेनाशेषधर्मात्मकवस्तुप्रतिपादकसकलादेश उच्छिद्येतेत्याशङ्कते-'नन्वेवमिति (१९८-१-९) प्रमाणवाक्यानां सर्वैः पदैमिलित्वा प्राधान्येनानन्तधर्मात्मकवस्तुबोधन एव तात्पर्यम् , वेदान्तवाक्यानामिवाखण्डब्रह्मबोधने, तथा च स्यादस्त्येव द्रव्यमित्यतः स्वेतरसकलधर्मात्मकत्वसम्बन्धेनास्तित्ववदेव द्रव्यमिति प्राथमिकबोधानन्तरं तस्मादनन्तधर्मात्मकमेव सर्व वस्त्वित्यौपादानिकबोधः सकलादेशजन्यः स्वीक्रियते, स च द्रव्यार्थिकार्पणयाऽनुपचरितैकविशेष्यताकः पर्यायार्थिकार्पणया चोपचरितकविशेष्यताक इति तात्पर्यार्थमादाय तत्र न प्रधानकार्थत्वव्याघातः, सकलादेशान्यार्थ एव गुणप्रधानभावेन बोधकत्वनियमस्य चरितार्थत्वात् , अत एव सकलादेशेऽनन्तत्वान्यधर्मानवच्छिन्नानन्तधर्मप्रकारतानिरूपितसकलवस्तुविषयताशालित्वेन केवलज्ञानतुल्यत्वोक्तिः सङ्गच्छत इत्याशयवान् समाधत्ते-कालादिभिरित्यादि (१०) ॥ अनुमन्यतामिति, (१९८-२-५) ननु कथमेतदनुमन्तव्यम् , “एक द्विकं त्रिकं वापि चतुष्कं पञ्चकं तथा । नामार्थ इति सर्वेऽमी पक्षाः शास्त्रे निरूपिताः॥१॥" इत्यादिनाऽनेकार्थवाचकतायाः पदानां शास्त्रसिद्धत्वात् , अत्रै जातिर्व्यक्तिविशिष्टं वा, द्विकं जातिव्यक्ती, त्रिकं लिङ्गसहिते ते, लिङ्गस्य शब्दधर्मस्यापि व्युत्पत्तिविशेषादुपचारेणार्थेऽन्वयः, चतुष्कं संख्यासहितानि तानि, पञ्चकं कारकसहितानि तानि, न चान्वयव्यतिरेकाभ्यां लिङ्गादेः प्रत्ययवाच्यत्वमेव युक्तम् , तत एव तदुपस्थितौ प्रकृतिवाच्यत्वे मानाभावादिति शङ्कनीयम् । प्रत्ययवर्जिते दधि पश्येत्यादौ प्रत्ययमजानतोऽपि लिङ्गादिबोधात् प्रकृतेरेव तद्वाचकत्वकल्पनात् , तथा लिङ्गानुशासनदर्शनाचेति चेत् , मैवम् , अव्यवस्थितत्वेनैतेषु पक्षेषु निबन्धस्य कर्तुमशक्यत्वात् , लिङ्गादेः For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy