SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ACADEM ॥२०४॥ प्रत्ययवाच्यत्वस्यापि शास्त्रसिद्धत्वात् , इत्थमेव “धोतिका वाचिका वा स्युर्द्वित्वादीनां विभक्तयः" इति पक्षद्वयव्युत्पादकवाक्यपदीयोपपत्तेः, इत्थं चैतदर्थपञ्चकमध्ये प्राधान्यमेकदैकस्यैवेति पदानां प्रधानैकार्थतानियमाव्याहतेरिति दिग् । ननु तथापि यथा पुष्पदन्तपदेन चन्द्रसूर्ययोः प्राधान्येनोपस्थितिस्तथा केनचित्पदेन सदसतोरपि स्यादित्यवक्तव्यत्वं नानुमंस्यत इति चेत् , मैवम् , " पुष्पदन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ" इति कोशस्वरसादेकोच्चारणान्तर्भावेन गृहीतनानाथशक्तिकपुष्पदन्तादिपदे व्युत्पत्तिवैचित्र्यात् , अत्र पुष्पदन्तादिपदं चन्द्रे सूर्ये च शक्तमित्याकारकः शक्तिग्रहः, तत्कार्यतावच्छेदकं च चन्द्रत्वप्रकारकत्वे सति सूर्यत्वप्रकारकस्मृतित्वम् , तादृशशाब्दत्वं च, चन्द्रसूर्योभयनिष्ठाया एकस्याः शक्तेश्चन्द्रत्वसूर्यत्वयो ासज्यवृत्त्यवच्छेदकतास्वीकारात् , अत एवैकत्रायोग्यताज्ञाने शक्त्या न बोधः, किन्तु लक्षणयेति नैयायिकसम्प्रदायः। वस्तुतः पुष्पदन्तादिपदज्ञानाधीननानार्थानुभवे एकमात्रानुभवे वा तत्पदज्ञाने नानार्थानुभवजनननियमनिश्चयः कारणं प्रति- | बन्धकं वा, अत एव तादृशनिश्चयविरहिणः कदाचिच्छक्त्याप्येकमात्रबोधः, उभयधर्मावच्छेदेन शक्तिग्रहेऽप्युद्धोधकवशादेकधर्मावच्छिन्नमात्रस्मृतिसम्भवात् उभयधर्मावच्छिन्नस्मृतावपि योग्यतादिवशादेकधर्मावच्छिन्नस्य शाब्दबोधसम्भवाच्चेति, न चायुक्तं चैतत् , इत्थं शक्यतावच्छेदकताया व्यासज्यवृत्तित्वानुपगमात् , तदुपगमे शक्तेरपि तत्त्वापत्तेः, न वा शक्त्यैक्यम् , सैन्धवादिपदेऽपि तदापत्तेः, सैन्धवादिपदमश्वे लवणे च शक्तमित्याकारशक्तिग्रहस्याविशेषात् , अश्वत्वेनाश्वः शक्यो न लवणमित्यस्यापि चन्द्रत्वेन चन्द्रः शक्यो न सूर्य इत्यनेन तुल्यत्वात् , एकत्रैकतरधर्मावच्छिन्नस्यापि बोधोऽन्यत्र युगपदुभयधर्मावच्छिन्नस्यैवेत्यस्य चोक्तरीत्यैवोपपत्तेरधिककल्पनायां मानाभावादित्येके। चन्द्रसूर्यो पुष्पवन्तपदजन्यैकबोधविषयौ भव A5% । २०४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy