________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री प्रतिनियतगमिक्रियावच्छिन्नमवगच्छति-ततः क्रियाद्यवच्छिन्नः सामान्यविशेषात्मको वाक्यार्थी व्यवतिष्ठते, पदसमुदायात्म- परिच्छेदः विवरणम् ॥ काद्वाक्यात्पदार्थात्मकस्यैव तस्य प्रतीतेरिति, तदिह वृक्षौ वृक्षा इत्यतः प्रत्ययवत्या प्रकृत्या वृक्षत्वतदाश्रयलिङ्गसङ्ख्यादि- प्रथमः ॥
विषयक्रमिकोपस्थितिपरिणत एवाकाङ्गादिसाचिव्येन लिङ्गसल्यादिप्रकारको वृक्षविशेष्यकः शाब्दबोधो जन्य इति तत्र विशे॥२०३॥
प्यतया वृक्षस्य प्राधान्यं द्वित्वबहुत्वादिसङ्ख्यायास्तु विशेषणतया गौणत्वमिति प्राधान्येनैकार्थवाचकत्वमेवैकपदस्य नियूंढमित्याह-प्रधान भावेन चेत्यादि' (१९८-१-६) प्रधानगुणभावस्यैवाभिमतत्वादित्यनन्तरं द्वितीयपक्षस्त्विष्ट एवेति पूरणीयम् , नन्वेवं सर्वशब्दस्य प्रधानैकार्थत्वे विशेषणवाचकशब्दोच्छेदापत्तिरित्याशङ्कायामवयवधीदशायामापततो विशेषणविशेष्ये कामचारादिष्टप्राधान्यमविरुद्धम्, वस्तुतः स्याच्छब्दोत्थापिताकासगुणापेक्षत्वमेवैकप्रधानार्थत्वम् , तच्च स्वामिन्नानन्तधर्मात्मकत्वसंसर्गेण स्वाश्रयविशेष्यकैकधर्मप्रकारकबोधतात्पर्यकत्वं पदे वाक्ये चाविरुद्धमिति व्युत्पादयन्नाह-स्यादिति निपातेनेत्यादिना (७)।। गुणानपेक्षस्य (७) सदेवेत्यादिना गुणाकासारहितस्य, अपवदनानिराकरणात्, तथाभूतत्वाद् (८) गुणप्रधानभूतत्वात् , उक्तेऽर्थेऽभियुक्तसम्मतिमाह तदुक्तमित्यादिना (८) गुणानपेक्षे नियमे सन्नेव घट इत्यादिप्रयोगे, स्यादिति निपातो वै (८) निश्चितम् , अपवादः (९) नयरूपस्योत्सर्गस्य स्याद्वादेन बाधनात् , नयात् प्रकृतकधर्मात्मकत्वस्यैव
वस्तुनः सिद्धेः, स्याद्वादात्तु प्रकृतेतरयावद्धर्मात्मकत्वद्योतकस्याच्छब्दमहिम्नाऽनन्तधर्मात्मकस्य वस्तुनः सिद्धिसौधाध्यारोहात्, ४ तदाह-इदं हि (९) प्रकृतं, जिनस्य रागादिशत्रुजेतुः, ते तव, वाक्यं गुणप्रधानार्थ प्रधानभावेन प्रकृतधर्मात्मकताया
गुणभावेन च तदितरसकलधर्मात्मकताया बोधपरम् , तत एव रागादिरोगग्रस्तानामेकान्ताभिनिवेशसन्निपातेन यथा तथा प्रला- NI २०३॥
E0%A4%AC%
ॐॐॐॐ
For Private And Personal Use Only