________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
योध्यम् । परेषामिति (१२) ये नैकशेषमिच्छन्ति तन्मतेनेत्यर्थः, तदनिष्टिश्च द्वन्द्वनियामकनिर्वचने विषयितास्थाने प्रकारि-1# ताया एव निवेशादेकार्थे तदसम्भवात् , वृक्षावित्यादौ प्रत्ययार्थद्वित्वान्वयस्य वृक्षपदार्थे एकत्वानवच्छेदेनैव सम्भवात् , सरूपैकशेषस्वीकारे तु तत्रैकत्वावच्छिन्ने द्वित्वबुद्धेः प्रमात्वायोगाद् वृक्षत्वादेवित्वावच्छेदकत्वे त्वेकत्रापि वृक्षत्वेन द्वित्वधियः प्रमात्वापत्तेः, अत एवेदृशसमभिव्याहारस्येदृशशाब्दबोधजनकत्वे स्वभावशरणानुधावनम् । इत्थमेव हरी इत्यादावगृहीतभेदपदद्वयादेवार्थद्वयबोधाच्छाब्देन द्वित्वेन निर्वाह इति बोध्यम् । अनेकनयमये भगवत्प्रवचने न्यायनयोपग्रहस्यापि क्वचिददुष्टत्वे तु मणिकृन्मतमेवात्रादेयम् , तत्र च नापातत एकार्थत्वे निर्भरः, किन्तु प्रधानैकार्थत्व इति सर्व समञ्जसम् । एवं व्याख्याने ग्रन्थकारः स्याद्वादिसमयविरोधमाशङ्कते-ननु च वृक्षा इतीत्यादिना (१९८-१-२) एकानेकात्मकस्य प्रत्ययवत्प्रकतिरूपपदवाच्यत्वेऽपि सकृदुच्चरितमित्यत्र बोधयतीत्यस्य प्रधानभावेन बोधयतीत्यर्थान्नानुपपत्तिरित्याशयेन समाधत्ते सोऽप्येवं प्रष्टव्य इत्यादिना (३)॥ स्वार्थमभिधायेति (५) शब्दो वृक्षादिशब्दः, स्वार्थं वृक्षत्वादिकम् , अभिधाय निरपक्षो विभक्त्यपेक्षारहितः, समवेतं समवायेन सम्बद्धम्, द्रव्यं वृक्षादिकम् , आह आक्षिपति, निराश्रयस्य वृक्षत्वस्यानुपपत्तेरित्यर्थः। समवेतस्य तु (६) द्रव्यस्य वचने (६) समवेतद्रव्यकथनानन्तरमित्यर्थः, विभक्तीर्लिङ्गं सङ्ख्यां चाह-अयमर्थोपस्थितिक्रमः पदोपस्थितिक्रमानुरोधी, स्वमते तु दीर्घकालिकशाब्दवाक्यार्थोपयोगघटक एवायं बोध्यः। क्रमिकावग्रहाद्यात्मनः प्रत्यक्षोपयोगस्येव क्रमिकसाकाङ्क्षपदार्थज्ञानात्मन एव शाब्दस्य वाक्यार्थोपयोगस्यैकस्याभ्युपगमात् , तदुक्तं सम्मतिवृत्तौ-गौर्गच्छतीति वाक्यप्रयोगे गोशब्दात् सामान्यविशेषात्मकं गवार्थ गच्छत्याद्यन्यतमक्रियासापेक्षं प्राक् प्रतिपाद्यते, गच्छतीत्येतस्माच्च तं
For Private And Personal Use Only