________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
9CR
अष्टसहस्री विवरणम् ॥ ॥२०२॥
परिच्छेदः प्रथमः॥
SC-3-94%
तदितरार्थनात्पर्यज्ञानस्य प्रतिबन्धकत्वकल्पनायां तु तदर्थतात्पर्यज्ञानस्योजकत्वं वाच्यम् । न चैवं गौरवम् , प्रामाणिकस्य तस्यादोषत्वात् , वाक्यभेदस्त्वर्थभेदात् , तदुक्तम् , “अबैक्यादेकं वाक्यम्" इति, न चैकानुसन्धाने योगपद्यान्तर्भावेन वा न वक्तुस्तात्पर्यम् , सकृदुच्चरित इत्यादिनियमेन बाधावतारादिति वाच्यम् । बाधितेऽपि क्वचिदिच्छोदयाद्विशेषदर्शनस्यासार्वत्रिकत्वात् सवदित्यस्य क्रियाविशेषणत्वेन विशेषदर्शनस्यैवायोगाच्चेत्याहुः, एतन्मते तु प्रधानैकार्थमादायैवोक्तपदवाक्यस्वभावः समर्थनीयः । निष्कृष्टनयमनालोच्यापाततः शङ्कते-कथमेवमिति (१९७-२-१२) निष्कृष्टनये तु वृक्षपदार्थे वृक्षत्वावच्छिन्ने द्विवचनाद् द्वित्वस्य बहुवचनाच्च बहुत्वस्यान्वयादनुपपत्तिरेव नास्तीति मन्तव्यम् । केषांचिदिति (१२) यैरेकशेषः स्वीक्रियते तन्मत इत्यर्थः, स चैकशेषः केषांचिद् द्वन्द्वापवादः, न च द्वन्द्वः क्वचित् पदार्थभेदे क्वचिच्च पदार्थतावच्छेदकभेद इत्यत्र तद्विषयासम्भवो, न च प्रतिपाद्यभेद एवानुगतो द्वन्द्वनियामकः, एकघटाभिप्रायकघटपदद्वयेऽपि द्वन्द्वापोः; प्रतिपाद्यघटघट त्वयोर्भेदादिति शङ्कनीयम् । एकपदप्रतिपाद्यत्वसामानाधिकरण्येनापरपदप्रतिपाद्यत्वावच्छिन्नभेदे एकपदजन्यप्रतिपत्तिविपयितात्वसामानाधिकरण्येनापरपदजन्यप्रतिपत्तिविषयितात्वावच्छिन्नभेदे वा द्वन्द्वप्रवृत्तेनियतत्वात् , घटावित्यादावेकपदप्रतिपायेऽपरपदप्रतिपाद्यत्वावच्छिन्नभेदाद्विशेष्यताभेदेन विषयिताभेदाद्वा तदुपपत्तेः, पदार्थतावच्छेदकाभेदेऽपि विषयिताभेदादेव समवायेन गुणत्ववतो विषयितया गुणत्ववतश्च बोधकयोमयवदभिधेयवद्बोधकयोश्च तदादिपदयोर्द्वन्द्वो निरपवादः । गगनाकाशादिपदयोश्च शब्दरूपपदार्थतावच्छेदकस्याननुगतत्वात्त देशपि न द्वन्द्वो विषयित्वाभेदादिति मन्तव्यम् । अन्येषां तु मते तद्धितादिवद्वृत्त्यन्तरमेव सः, न तु द्वन्द्वमेदः, समासान्तरं वा, करौ पन्थानावित्यत्र नपुंसकत्वस्यादन्ततायाश्चापत्तेरिति
ANCIENCE
W॥२.२॥
For Private And Personal Use Only