________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम् ॥
परिच्छेदः प्रथमः॥
॥१८८॥
नुद्धरिष्यन्नित्यर्थः। स चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य च द्योतकत्वे सङ्गच्छते, अन्यथा प्रत्ययानामप्रकृत्यान्वितस्वार्थबोधकत्वविरोधे इवशब्दस्य चासत्त्वार्थकतया तदुत्तरं तृतीयावा असम्भवात् , सम्भवे वा श्रवणप्रसङ्गादुस्रपदोत्तरतृतीयानन्वयप्रसङ्गाच्च । एवं " वागर्थाविव सम्पृक्तौ पार्वतीपरमेश्वरौ वन्दे " इत्यत्र वागर्थयोर्वदिकर्मत्वाभावात्तदुत्तरद्वितीयानन्ययप्रसङ्गः, इवाथै कर्मत्ववोधकायोगश्च । अथ निपातस्यावाचकत्वेऽब्राह्मण इत्यादौ पूर्वपदस्यानर्थकत्वेन तत्पुरुषलक्षणोत्तरपदार्थप्राधान्यानापत्तिरिति चेत्, न । तत्र द्योत्यमर्थमादायैवार्थवत्वेन निपातस्य प्रातिपदिकत्वात् , अस्तु वा निपातस्यानर्थकस्येति वार्तिकात्तत्र तत्वं कृत्तद्धितसमासाश्चेत्यनुक्तसमुच्चयार्थकचकारेण निपातसङ्ग्रहाद्वेति युक्तं निपातानां द्योतकत्वम् , “उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् " ॥१॥ इति वृद्धोक्तावुपसर्गपदं निपातस्य धातुपदं च पदान्तरस्योपलक्षणमिति बोध्यम् । यद्वा बोधकतारूपशक्तेरवाधान्निपातानां तत्तदर्थवाचकत्वमेवास्तु । अन्यथा | पचतीत्यादौ धातोरेव कर्तृविशिष्टभावनायां लक्षणास्वीकारे तत्तात्पर्यग्राहकतथा तिङादेरपि द्योतकत्वोपगमापत्तेः, एवं च धात्वर्थप्रातिपदिकार्थयोर्भेदेनान्वयबोधोऽव्युत्पन्न इति समानाधिकरणप्रातिपदिकार्थयोरभेदेनान्वयबोध इत्यपि च निपातातिरिक्तविषयं कल्पनीयम् । न तु नैयायिकोक्तरीत्या प्रादिचादिवैषम्यम् , निपातस्यानर्थकस्येति विधिवैयर्योद्धाराय केषांचिद् द्योतकत्वे केषाश्चिद्वाचकत्वे स्वीकार्ये, चादयो द्योतकाः प्रादयो बाचका इति वक्तुरपि वदनस्य पिधातुमशक्यत्वात् , सर्वथानर्थकानां पादपूरणमात्रार्थमुपात्तानां सङ्ग्रहाय वार्त्तिकारम्भस्य कैयटादौ स्पष्टत्वाच्च । किश्च केवलवृक्षशन्दात् समुश्चयाबोधाच्चकारश्रवणे च तद्रोधाच्चकार एव समुच्चयस्य वाचको न द्योतकः, अपि च द्योतकत्वे पदान्तराणां
॥ १८८॥
For Private And Personal Use Only